________________
श्रीहरिभद्रसूरिविरचितं
[गा०२२इत्याह—आज्ञामृतसंयुक्तम्, तथाविधकर्मपरिणतेरेव भावतस्तत्सिद्धेः । “तथाविधकर्मपरिण तिरेवाज्ञामृतसंयोगोऽन्तरङ्गमङ्गम् , बाह्याज्ञायो[ १०-प्र० ]गस्यापि तन्निबन्धनत्वात् " इति विद्वत्मवादः । ततः किम् ? इत्यत आह-तदनुष्ठानं सर्वमेव परमार्थमधिकृत्य योगः । इति गाथार्थः ॥२१॥
एतत्प्रकटनायैवाहतल्लक्खणयोगाओ उ चित्तवित्तीणिरोहओ चेव ।
तह कुसलपवित्तीए मोक्खेण उ जोयणाओ त्ति ॥२२॥ 'तल्लक्षणयोगादेव' उचितानुष्ठानत्वेन योगलक्षणयोगादेव, “सर्वत्रोचितानुष्ठान योगः” इति तल्लक्षणोपपत्तेः । तथा चित्तवृत्तिनिरोधतश्चैव सर्वत्र यथासम्भवम् , योग10 लक्षणं चैतन्मुख्यम् , “योगश्चित्तवृत्तिनिरोधः"[ पातञ्जल०१-१] इति वचनात् । उभयत्रान्वर्थयोजनयोपसंहारः । 'तथा कुशलप्रवृत्त्या' तेन प्रकारेण कुशलप्रवृत्त्या हेतुभूतया मोक्षेण सह योजनात् कारणात् । अत एव प्रवृत्तिनिमित्ताद् योगः । इति गाथार्थः ॥२२॥
यद्यप्येतदेवं क्वचित् तथाप्येतानेवाधिकृत्य प्रायोगतं विधिमभिधातुमाह
एएसि पि य पायं बझाणायोगओ उ उचियम्मि ।
अणुठाणम्मि पबित्ती जायइ तहसुपरिसुद्ध त्ति ॥२३॥ 'एतेषामपि च' अपुनर्बन्धकादीनां तथाविधकर्मपरिणतिसमन्वितानामपि प्रायः' बाहुल्येन 'बाह्याज्ञायोगत. एव' जिनवचनो १०-द्वि० ]पदेशलक्षणाद् 'उचिते'
तीवभावेन पापाकरणादौ अनुष्ठाने प्रवृत्तिजोयते चित्रा( ! ता )नाभोगनिवृत्त्या तथा20 सुपरिशुद्धा दाढर्थेन भगवद्हुमानतः । इति गाथार्थः ॥२३॥
यत एवमतः किम् ? इत्याह
गुरुणा लिंगेहिं तो एएसि भूमिगं मुणेऊण ।
उवएसो दायवो जहोचियं ओसहाऽऽहरणा ॥२४॥
'गुरुणा' अन्वर्थव्यवस्थितशब्दार्थेन, गृणाति शास्त्रार्थमिति गुरुरित्यन्वर्थः । 25 'लिङ्गैः' प्रागुपदिष्टैः तीवभावेन पापाकरणादिभिः । 'ततः' तस्मात् कारणात् यस्मा
दनन्तरोदितगाथोक्तं तथेति । 'एतेषाम्' अपुनर्बन्धकादीनां 'भूमिका' तत्तद्धर्मस्थान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org