SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ स्वोपाटीकालंकृतं योगशतकम् । यत एतदेवं अत एव मुनिरवविध उक्त इत्याह वासी-चंदणकप्पो सममुह-दुक्खो मुणी समक्खाओ । भव-मोक्खापडिबद्धो अओ य पाएण सत्थेसु ॥२०॥ 'वासी-चन्दनकल्पः' मध्यस्थः । “एकान्तसत्त्वहितः” इत्यन्ये, बाह्यापेक्षमेतत् । तथा समसुख-दुःखः, माध्यस्थ्येनोपयोगात् , सर्वत्र राग-द्वेषजयात् , आन्तरापेक्ष- 5 मेतत् । मुनिः समाख्यातः एवम्भूतः । तथा भव-मोक्षाप्रतिबद्धः, इच्छाऽभावात् , "केवलित्वात्" इत्यन्ये । अत ए[९-द्वि०]व कारणाद् यथोक्तसामायिकयोगेन 'प्रायः' बाहुल्येन 'शास्त्रेषु' षष्टितन्त्रादिषु । तथा चोक्तम् "औदासीन्यं तु सर्वत्र त्याज्योपादानहानितः । वासी-चन्दनकल्पानां वैराग्यं नाम कथ्यते ॥" तथा "वासी-चन्दनकरूपत्वं या कल्याणैकशीलता । चन्दनच्छेददृष्टान्तात् सद्धर्मातिशयान्मुने ! ॥" "दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतलोभ-भय-क्रोधः स्थिरधीर्मुनिरुच्यते ॥" 15 ____ [भगवद्गीता-५६] "मोक्षे भवे च सर्वत्र निस्पृहोऽयं सदाशयः । प्रकृत्यभ्यासयोगेन तथाशुद्धेर्नियोगतः ॥" मोहादिच्छा स्पृहा चेयममोहश्च मुनिर्यतः । तन्नास्येयं क्वचिन्याय्या तत्प्राप्तिस्तु क्रियाफलम् ॥" 20 इति गाथार्थः ॥२०॥ एवमेतानभिधाय सर्वेष्वेवैतेषु प्रकृतयोजनामाह एएसि णियणियभूमियाए उचियं जमेत्थऽणुट्ठाणं । आणामयसंयुत्तं तं सव्वं चेव योगो त्ति ॥२१॥ 'एतेषाम्' अपुनर्बन्धकादीनां वीतरागान्तानां 'निजनिजभूमिकायाः' तथाविध- 35 दशायाः उचितं यदत्रानुष्ठानं तीवभावेन पापाकरणादिवीतरागकल्पान्तम् । किंविशिष्टम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy