________________
श्रोहरिभद्रसूरिविरचितं
गा० १९ष्ठानं क्रियमाणं श्रेयः, "तत्त्वाभिष्वङ्गस्यापि तत्त्वतोऽतत्त्वत्वाद् वस्त्रादिशुद्धिविधावञ्जनकल्पत्वाद् धर्मरागादपि मुनिरमुनिः' इत्यन्यैरप्यभिधानात् । अनेन रूपेण तत्कायानाराधनात् , भगवति गौतमप्रतिबन्धो ज्ञातमप्यत्रेति, एवमादेविशिष्टश्रुतसमुत्थात् । एतच्च प्रायः सर्वेषां चतुर्दशपूर्वधरादीनामित्यत आह-आवरणापगमभेदतश्चैव, 5 चारित्रमोहनीयावरणापगमविशेषाच्चेति भावः । किम् ? इत्याह-'इति द्रष्टव्यम्' एतत् सामायिकं शुद्धमेवं द्रष्टव्यम् , परमाथत उभयभाववृद्ध्या तात्त्विकमिति । यद्येवं माषतुषादीनामादौ कथमेतत् ? इत्याह-'प्रथम' सामायिकं छेदोपस्थाप्यादिकण्डकाधोवर्ति। [८-द्वि० ] किम् ? इत्याह- भूषणस्थानादिप्राप्तिसम' रत्नालङ्कार
करण्डकप्राप्तितुल्यम् , आदिशब्दाद हिरण्य-वसनादिप्राप्तिपरिग्रहः । अत्र हि न किञ्चित् 10 तत्तदन्तयत्नावाप्तमोघेन, अथ च कालान्तरेणोपायतः तद्विशेषावाप्तिः । एवमोधतोऽपि सामायिकावाप्तौ विशिष्टक्षयोपशमभावतस्तथाऽवन्ध्यबीजभावत्वेन कालोपायान्तरापेक्षायामपि तत्त्वतस्तद्भेदावाप्तिसिद्धिः, अन्यथा सामायिकसामग्र्याऽयोगात्, सर्वथा सर्वभावसमतायां आदित एव वीतरागत्वप्राप्तेः कर्मणस्तत्र परमार्थतोऽकिञ्चि
करत्वात् , किञ्चित्करत्वे तु नोक्तन्यायातिरेकेण समग्रताऽस्येति परिभावनीयम् । तथा 15 ऽन्यैरप्युक्तम्–“सम्भृतसुगुप्तरत्नकरण्डकप्राप्तितुल्या हि भिक्षवः ! प्रथमसर्मस्थानावाप्तिः"
] । इति गाथार्थः ॥१८॥ यद्येवं समभावलक्षणं सामायिकं कथं तद्वतः क्वचित् क्रिया ? इत्यत्राहकिरिया उ दंडजोगेण चक्कभमणं व होइ एयस्स ।
आणाजोगा पुन्वाणुवेहो चेव णवरं ति ॥१९॥ 20 क्रिया पुनः क्वचिद् भिक्षाटनादौ प्रवृत्तिरूपा दण्डयोगेन चक्रभ्रमणवद्
भवति 'एतस्य' सामायिकवतः आज्ञायोगात् , यथेह चक्रमचेतन[ ९-प्र० ]त्वाद् राग-द्वेषरहितं भ्रमणा-ऽभ्रमणयोस्तुल्यवृत्ति दण्डयोगाद् भ्रमति एवमयं सामायिकवांस्तथाक्लिष्टकर्मविगमाद् विशुदभावयोगेन भिक्षाटना-ऽनटनयोः समवृत्तिरेवाऽऽज्ञायोगादटतीति हृदयम् । प्रवृत्तावाज्ञयोगेन तथाक्रियायामपि तद्योगे तु द्रव्यत्वप्रसङ्गात् , 35 एकदोपयोगद्वयाभावात् , वीतरागस्य वा तद्योगात् क्षायिकज्ञानोपपत्तेः, आज्ञायोगस्य
च क्षायोपशमिकत्वाद् न युक्तिमदटनादीति विभ्रमापोहायोपचयमाह-'पूर्वानुवेधतश्चैव' दण्डयोगाभावेऽपि तत्सामर्थ्यविशेषतश्चक्रभ्रमणवदेवाऽऽज्ञायोगाभावेऽपि तत्पूर्वानुवेधत एवाटनादि नवरमिति, एवं न कश्चिद् दोषः । इति गाथार्थः ॥१९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org