________________
१८] स्वोपशटीकालंकृतं योगशतकम् । निजं कार्यमाह । उक्तं चान्यैरपि-- "ऊर्ध्वा-ऽघःसमाधि[७-द्वि ०]फलः सास्रावाः समाधिः, न चास्य योगतो भेदः ।"
] इति । एवं योगस्यानुषङ्गतो निजफलविधिमभिधाय लिङ्गान्तरमाह-गुणरागी, विशुद्धाशयत्वात् । तथा शक्त्या(? क्या)रम्भसङ्गतः, वन्ध्यारम्भभावनिवृत्तेः । तथा च चारित्री' । तथा चारित्री च एवंविधो भवति । इति गाथार्थः ॥१५॥
अयं च चारित्री देश-सर्वचारित्रभेदादनेकविध इत्यत आह
एसो सामाइयसुद्धिभेयओ णेगहा मुणेयव्यो ।
आणापरिणइभेया अंते जा चीयरागो त्ति ॥१६॥ 'एषः' चारित्री 'सामायिकशुद्धिभेदतः' इत्वरेतराङ्गीकरणेन ‘अनेकधा' अनेक- 10 प्रकारो मन्तव्यः । सामायिकादिप्रतिमानुक्रमेण गृही, तथा सामायिक-च्छेदोपस्थाप्यादिक्रमेणानगारः । कथम् ? इत्याह-आज्ञापरिणतिभेदात्, न मौनीन्द्रवचनपरिणतेरन्यत् शुद्धिकारणमिति कृत्वा । अन्ते यावत् सर्वभेदानां वीतरागः । तत्रापि क्षायिकवीतरागः । इति गाथार्थः ॥१६॥ सामायिकस्यैकरूपत्वात् कथं शुद्धिः ? इत्याशङ्कापोहायाऽऽह- 15
पडिसिद्धेसु अदेसे विहिएमु य ईसिरागभावे वि ।
सामाइयं असुद्धं सुद्धं समयाए दोसुं पि ॥१७॥ 'प्रतिषिद्धेषु' प्राणातिपातादिषु हेयेषु 'अद्वेषे' अमत्सरे, 'विहितेषु च' तपोज्ञानादिषु ईषद्-मनाग् रागभावेऽपि-औत्सुक्यकरणेन । किम् ? इत्याह-'सामायिक' समभावलक्षणं तात्त्विकम् 'अशुद्ध' क्षयोपशमवैचित्र्यान्मलिनम् । 'शुद्ध' निर्मलं यथा- 20 वस्थितं 'समतया' मध्यस्थत[ ८-प्र० ]या 'द्वयोरपि विहित-प्रतिषिद्धयोः समतृणमणि-मुक्ता-लेष्टु-काश्चनसमशत्रु-मित्रभावरूपत्वादस्य । इति गाथार्थः ॥१७॥ यथैतदेवं भवति तथाऽभिधातुमाह
एयं विसेसणाणा आवरणावगमभेयओ चेव ।
इय ददृव्वं पढमं भूसणठाणाइपत्तिसमं ॥१८॥ 'एतत् शुद्धं सामायिक 'विशेषज्ञानात्' तात्त्विकाद् हेयोपादेयविषयाद् अहिदष्टाङ्गच्छेदायुदाहरणतोऽभिष्वङ्गविषत्याग-संवेदनादिगर्भाद् विहितमिति, एकान्तानभिष्वङ्गानु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org