________________
श्रीहरिभद्रसूरिविरचितं
[गा० १३
कानि पुनस्तानि लिङ्गानि ? इत्याह
पावं न तिब्वभावा कुणइ, ण बहुमण्णई भवं घोरं ।
उचियटिइं च सेवइ सव्वत्थ वि अपुणवंधो त्ति ॥१३॥
‘पापम्' असदनुष्ठानं 'न तीव्रभावात्' न तीवभावेन करोति, करोति च 5 . तथाविधकर्मदोषेण । तथा न बहुमन्यते चित्तप्रीत्या 'भवं घोरं' भवन्त्यस्मिन् कर्म
परिणामवशवर्तिनः प्राणिन इति भवः-संसारस्तं रौद्रम् । तथा 'उचितस्थितिं च' उचितव्यवस्थां च 'सेवते' भजते 'सर्वत्रापि' धर्मादौ मार्गानुसारित्वाभिमुख्येन मयूरशिशुदृष्टान्ताद् ‘अपुनर्बन्धक इति' एवम्-एवम्भूतोऽपुनर्बन्धकोऽभिधीयते इति गाथार्थः ॥१३॥
सम्यग्दृष्टिलिङ्गाभिधित्सयाऽऽह--
सुरसूस धम्मराओ गुरु-देवाणं जहासमाहीए ।
वेयावच्चे णियमो [७-प्र०) सम्मदिहिस्स लिंगाई ॥१४॥ 'शुश्रूषा' श्रोतुमिच्छा धर्मशास्त्रेषु, गेयरागिकिन्नरगेयशुश्रूषाधिका । तथा 'धर्मरागः' धर्माभिष्वङ्गः, सामग्रीवैकल्या[त् त]दकरणेऽपि चेतसोऽनुबन्धः, दरिद्रब्राह्मणविशेषहविःपूर्णरागसमधिकः । तथा 'गुरु-देवानां' चैत्य-साधूनां 'यथासमाधिना' 15 शक्त्याद्यनुरूपम् , नासद्ग्रहेण । किम् ? इत्याह-'वैयावृत्ये' व्यावृतभावे नियमः,
गुणज्ञश्राद्धचिन्तामणिवैयावृत्यनियमाभ्यधिकः करोत्येवैतदित्यर्थः । सम्यग्दृष्टेः 'लिङ्गानि' चिह्नानि, ग्रन्थिभेदेन तत्त्वे तीवभावात् । इति गाथार्थः ॥१४॥
चारित्रिलिङ्गान्याह
मम्गणुसारी सद्धो पण्णवणिज्जो कियापरो चेव । 20. गुणरागी सकारंभसंगो तह य चारित्ती ॥१५॥
मार्गानुसारी, चारित्रमोहनीयकर्मक्षयोपशमयोगात् ; अस्य च तत्त्वावाप्तिं प्रत्यवन्ध्यकारणत्वात् , कान्तारगतविवक्षितपुरप्राप्तिसद्योगतासमेतान्धवत् । तथा श्राद्धः, तत्त्वं प्रति तत्प्रत्यनीकक्लेशहासातिशयात् , सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृतद्गतविधिश्राद्धवत् ,
अनेनोत्तरयोगः पापयोगप्रतिबन्धकापगमहेतुरित्येतदाह । तथा प्रज्ञापनीयः, अत एव 235 कारणद्वयात् सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृतद्गतविधिश्राद्धाप्तप्रज्ञापकवत् , सच्छूद्धाफलोए
दर्शनार्थमेतत् । तथा क्रियापरश्चैव, उक्तलक्षणादेव हेतोः, अनेन मार्गानुसारित्वस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org