________________
१२]
स्वोपशटीकालंकृतं योगशतकम् ।
योरावर्तभेदेन तथा सांसिद्धिकत्वतः । युज्यते सर्वमेवैतन्नान्यथेति मनीषिणः ॥”
[ योगबिन्दुः १०१-५ ]
न च प्रकृति-कर्मप्रकृत्योः कश्चिद् भेदोऽन्यत्राभिधानभेदात् । इति गाथार्थः ॥ १० ॥
[ ६ - प्र० ] एतद्भावना यैवाह—
तप्पोगलाण तग्गहणसहावावगमओ य एवं ति । इदयं, इहरा तहबंधाई न जुज्जंति ॥११॥
दुर्विज्ञेयं चैतदित्याह-
एयं पुण णिच्छयओ असणाणी बियाणए गवरं । इयरोविय लिंगेहि उवउत्तो तेण भणिएहिं ॥ १२ ॥
७
‘तत्पुद्गगलानां’ कर्मप्रकृतिपरमाणूनां 'तद्ग्रहणस्वभावापगमतः'' जीवग्रहणस्वभावापगमात् 'च’शब्दाद् जीवस्य च तद् ग्राहकस्वभावापगमात् कारणाद् एतन्नूनं निवृत्तप्रकृत्य धिकारित्वम् एतत्पुरस्सरं च प्रस्तुताधिकारित्वम् ' इय" एवं द्रष्टव्यम् । 10 विपक्षे बाघामाह— ‘इतरथा' यथेवं नाभ्युपगम्यते, ततः किम् ? इत्याह- तथाबन्धादयो न युज्यन्ते, ' तथा ' इति चित्रानन्तग्रहणप्रकारेण बन्धः | आदिशब्दाद् भूयो ग्रहणा - ऽग्रहणरूपो मोक्षः । तथा एतन्निबन्धनाश्च विकारा दोष- गुणलक्षणा इति, एते न युज्यन्ते, अतत्स्वभावस्य तथाभवनाऽयोगात्, अतिप्रसङ्गादिति । तदयमत्र भावार्थ:- ते परमाणवोऽनादित एव तथाऽनन्तशः तदात्मग्रहणस्वभावाः, 15 सोऽप्यात्मा एवमेव तद्ग्राहकस्वभाव इत्युभयोस्तत्स्वभावतया घटते तथाबन्धादयः, अन्यथा मुक्तानामपि बन्धादिप्रसङ्गः, अत (ङ्गः, तत्स्वभावत्व एवोभयोरपि तद्भावोपपत्तेरिति भावनीयम् । न चैवमपि स्वभाववाद एवैकान्तेन, तथाविधकालादेरप्यत्रोपयोगात्, तस्यैव तदाक्षेपकत्वात्, इतरेतरापेक्षित्वे प्राधान्यासिद्धेः [ ६- द्वि०] सामग्र्या एव फलनिष्पादकत्वात् । निलठितमेतदन्यत्र धर्मसारादौ । इति गाथार्थः ॥ ११ ॥
20
१. “ उभयोस्तत्स्वभावत्वात् तदावर्त्तनियोगतः ॥” इति रूपं पूर्वाद्धं योगबिन्दौ वर्त्तते ॥
"
For Private & Personal Use Only
Jain Education International
5
'एतत् पुनः' अनन्तरोदितविधिसमायातमधिकारित्वं 'निश्चयतः' निश्चयेन अति
शयज्ञानी विजानाति, नवरं केवली, नान्यः । यद्येवम्, अनर्थक एवास्योपन्यास इत्याह - 2 ‘इतरोऽपि च’ अनतिशयी छग्नस्थः 'लिङ्गैः' चिह्नर्वक्ष्यमाणैः उपयुक्तः सन्, नान्यथा, ‘तेन' अतिशयिना ‘भणितैः' प्रतिपादितैः जानाति । इति गाथार्थः ॥ १२ ॥
www.jainelibrary.org