________________
श्रीहरिभद्रसूरिविरचितं
[गा०९यत एवमतोऽत्राधिकारिणमाह
अहिगारी पुण एत्थं विष्णेओ अपुणबंधगाइ त्ति ।
तह तह णियत्तपगईअहिगारो गभेओ त्ति ॥९॥
अधिकारी पुनः ‘अत्र' योगमार्गे ‘विज्ञेयः' ज्ञातव्यः ‘अपुनर्बन्धकादिः' य इह । परिणामादिभेदादपुनर्बन्धकत्वेन तांस्तान् कर्मपुद्गलान् बध्नाति स तक्रियाविष्टोऽप्यपुन
बन्धक उत्कृष्टस्थितेः । आदिशब्दात् सम्यादृष्टिश्चारित्री चाभिगृह्यते, इह प्रकरणे एतदन्येषां सकृद्वन्धकादीनामभणनात् । अत एवाऽऽह-तथा तथा' तेन तेन प्रकारेण तज्जीवग्रहणसम्बन्धयोग्यतापगमलक्षणेन निवृत्त:-अपगतः प्रकृतेः-कर्मवर्गणारूपायाः
अधिकारः-विशिष्टविचित्रफलसाधकत्वलक्षणो यस्य स निवृत्तप्रकृत्यधिकारः अनेकभेदः । 10 इति गाथार्थः ॥९॥
अयमेवाधिकारी, नान्य इ[५-द्वि ०]त्याह
अणियत्ते पुण तीए एगंतेणेव हंदि अहिगारे । तप्परतंतो भवरागओ ददं अणहिगारि त्ति ॥१०॥
अनिवृत्ते पुनः तस्याः' प्रकृतेः 'एकान्तेनैव' सर्वथैव 'हन्दि' इत्युपप्रदर्शने 15 'अधिकारे उक्तलक्षणे 'तत्परतन्त्रः' प्रकृतिपरतन्त्रः "भवरागओ" त्ति संसाररागाद् 'दृढम्' अत्यर्थं सर्वतद्भेदप्राप्तेः अनधिकारीति । उक्तं चान्यैरपि योगशास्त्रकारैः
" अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिन् जिज्ञासाऽपि प्रवर्तते ॥ क्षेत्ररोगाभिभूतस्य यथाऽत्यन्तं विपर्ययः । तद्वदेवास्य विज्ञेयस्तदावर्तनियोगतः ॥ जिज्ञासायामपि ह्यत्र कश्चिन्मार्गो निवर्तते । नाक्षीणपाप एकान्तादाप्नोति कुशलां धियम् ॥ ततस्तदात्वे कल्याणमायत्यां तु विशेषतः ।
मन्त्राद्यपि सदाचारात् सर्वावस्थाहितं मतम् ॥ १. एतत् पञ्चश्लोकात्मकमुद्धरणं गोपेन्द्राचार्टीय इति श्रीहरिभद्रसूरयः स्वयमेव योगबिन्दौ प्राहुः । तथाहि-तथा चान्यैरपि ह्येतद् योगमार्गकृतश्रमैः । सङ्गीतमुक्तिभेदेन यद् गौपेन्द्रमिदं वचः ॥१८॥ --अनिवृत्ताधिकारायां ॥ २. 'कश्चित् सर्गो' इति योगबिन्दौ पाठः ॥ ३. 'सदा चारु' इति योगबिन्दौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org