SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ <] स्वोपज्ञटीकालंकृतं योगशतकम् । कथं पुनरस्य निश्चययोगाङ्गता : इत्याह एत्तो च्चिय कालेणं णियमा सिद्धी पगिट्ठरुवाणं । सणाणाईण तहा जाय अणुबंधभावेण ||६|| 'अत एव ' गुरुविनयादेः कालेन गच्छता 'नियमात् सिद्धिः' अवन्ध्यकारणत्वे नावश्यन्तया निष्पत्तिः । केषाम् ? इत्याह--- ' प्रकृष्टरूपाणां क्षायिकाणां सज्ज्ञा- 5 नांदीनाम् । तथा जायते । ' तथा ' इति औचित्यप्रतिपत्तिपुरस्सरया सदाज्ञाराधनया तद्वृद्धिभावात् । तथा चाह— 'अनुबन्धभावेन' तदुत्त[४ – द्वि० ]रोत्तराक्षेपेण, मार्गानुसार्याज्ञाविशुद्धानुष्ठानस्य सदनुबन्धत्वात् । इति गाथार्थः || ६ || एवं च कृत्वा गुरुविनयादिमतोऽपि योगिव्यपदेशो न्याय्य एवेत्यत आहमग्गेणं गच्छंतो सम्मं सत्तीए इहपुरपहिओ । जह तह गुरुविणयासु पयट्टओ एत्थ जोगि ति ||७|| 'मार्गेण' प्रापकपथा तात्त्विकेन गच्छन् 'सम्यक्' शकुनादिमाननादिना प्रकारेण 'शक्त्या' गमनसामर्थ्यरूपया 'इष्टपुरपथिकः' यथाभिलषितपुराध्वगो यथा प्राप्य - विसंवादेनोच्यते तथा 'गुरुविनयादिषु' प्रागुपन्यस्तेषु प्रवृत्तः सन् विधिना ' अत्र ' प्रक्रमे योगीत्युच्यते इष्टयोगप्राप्त्य विसंवादेन । इह च व्यवहितगाथायामत्र च विधि- 135 ग्रहण-सम्यग्ग्रहणाभ्यां गृहीतमपि भेदेन शक्त्यभिधानं तत्प्राधान्यख्यापनार्थम् । दृष्टश्रायं न्यायः, यदुत "सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनाभिधानम्, यथाब्राह्मणा आयाता वशिष्ठोऽप्यायातः" इति । प्राधान्यं तु सर्वत्र शक्तेरनुबन्धसाधकत्वेन । यथोक्तम् --‘“शक्तिः सफलैव सम्यक्प्रयोगात् " [ ] । इति गाथार्थः ॥७॥ 20 एवं योगपीठमभिधायाधिकार्यादिनिरूपणार्थमाह अहिगारिणो उवारण होइ सिद्धी समत्थवत्थुम्मि । फल गरिसभावाओ विसेसओ जोगमम्मि ||८|| 'अधिकारिणः' योग्यस्य ‘उपायेन' तत्साधनप्रकारेण भवति 'सिद्धि:' कार्यनिष्पत्तिः ‘समस्तवस्तुनि' सेवादौ फ[५- प्र० ]लप्रकर्षभावात् । मुक्तिसाधनत्वेन 'विशेषतः' विशेषेण ' योगमार्गे' प्रस्तुते अधिकारिण उपायेन सिद्धिः । इति गाथार्थः || ८ || Jain Education International 10 For Private & Personal Use Only www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy