________________
श्रीहरिभद्रसूरिविरचितं
[गा० ४इति वस्तुन्येव, अस्य महाव्रतरूपत्वात् , तेषां च बाह्यविषयत्वात्, “पढमम्मि सव्वजीवा" [आव०नि०गा०७९१ ] इति वचनात्, अन्यथा अस्याभाव इति भावनीयम् । क्रमश्चायमेषाम् , निश्चयत इत्थमेव भावात् । तथाहि- नाज्ञाते श्रद्धा, अश्रादस्य वाऽनुष्टानमिति । उक्तं च
“यदि जानात्युत्पन्नरुचिस्ततो दोषान्निवर्तते ।" अन्यत्र तु सम्यग्दर्शनोपन्यास आदौ व्यवहारमतेन कर्मवैचित्र्यात् तथाभावतोऽविरुद्ध एव । इति गाथार्थः ॥३॥
एवं निश्चयसारत्वाद् योगस्याऽऽदौ तन्मतेन लक्षणमभिधायाधुना व्यवहारमतेनाभिधातुमाह
ववहारओ उ एसो चिन्ने एयकारणाणं पि ।।
जो संबंधो सो वि य कारण कज्जावयाराओ ॥४॥ 'व्यवहारतस्तु' सामान्येन फलं प्रति योग्यतामधिकृत्य 'एषः' प्रस्तुतो योगः 'विज्ञेयः ज्ञातव्यः । किम्भूतः ? इत्याह - 'एतत्कारणानामपि' सम्ज्ञानादिकारणानामपि
गुरुविनयादीनाम् । अपिशब्दात् सज्ञानादीनामपि सर्वनयभावाङ्गीकरणेन यः सम्बन्धः 15 सोऽपि च योगो विज्ञेयः । चशब्दादनन्तगेदितश्च । कथम् : इत्याह-[४-प्र०]
'कारणे कार्योपचाराद्' योगकारणे--अनन्तर-परम्परभेदभिन्ने कार्योपचाराद्-योगोपचारात् । दृष्टश्चायं प्रयोगो यथा-आयुधृतम्, तण्डुलान् वर्षति पर्जन्यः । इति गाथार्थः ॥४॥
प्रस्तुतयोगमेव स्वरूपत आह20 गुरुविणओ मुम्सुसाइया य विहिणा उ धम्मसत्थेसु ।
तह चेवाणुद्वाणं विहि-पडिसेहेसु जहसत्तिं ॥५॥ 'गुरुविनयः' पादधावनादिः, 'शुश्रूषादयश्च' शुश्रूषा-श्रवण-ग्रहण-विज्ञान-धारणोहाऽपोह-तत्त्वाभिनिवेशाश्च, विधिना तु' विधिनैव स्थानशुद्धयादिना, अविधेः प्रत्यवाय
हेतुत्वात्, अकृतोऽविधिकृतयोगाद् वरम्, असच्चिकित्सोदाहरणादिति भावनीयम् । 23 क्वैवं शुश्रूषादयः इत्याह-'धर्मशास्त्रेषु' आचारोत्तमश्रुतादिष्वित्यर्थः । तथैव
'अनुष्ठान' क्रियारूपं विधि-प्रतिषेधयोः धर्मशास्त्रोदितयोः । कथम् ? इत्याह-'यथाशक्ति' करणा-ऽकरणयोः शक्त्यनुल्लङ्घनेन । इति गाथार्थः ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org