________________
स्वोपशटीकालंकृतं योगशतकम् । अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथानुभवसंसिद्धममृतं पद एव तु ॥"
[ योगबिन्दुः ३५८-५९] इत्यादि । अध्यात्मं च योग इति यथोदितप्रयोजनसिद्भिः । पर्याप्तं प्रसङ्गेन । इति गाथार्थः ॥१॥
इह योगो द्विधा-निश्चयतो व्यवहारतश्चेति । अस्य लक्षणमाह
निच्छयओ इह जोगों सण्णामाईण तिण्ह संबंधो ।
मोक्खेण जोयणाओ णिदिवो जोगिनाहेहिं ॥२॥
'निश्चयतः' निश्चयेन-अक्षेपफलं नियमफलं वाऽङ्गीकृत्य तद्भावेन । 'इह' लोके प्रवचने वा । 'योगः' धर्मविशेषः । 'सज्ज्ञानादीनां' सज्ञानस्य सद्दर्शनस्य सच्चारित्रस्य च । सद्ग्रहणं मिथ्याज्ञा[३ - प्र०]नादिव्यवच्छेदार्थम् । एतेषां 10 त्रयाणां 'सम्बन्धः' मीलकः, एकात्मन्यवस्थानमित्यर्थः । त्रयाणामिति च न्यूनाधिकसंख्यानिरासार्थम्, त्रयाणामेव सम्बन्धो निश्चयतो योगः । कुतः ? इत्यन्वर्थमाह- 'मोक्षेण योजनात्' कृत्स्नकर्मक्षयो मोक्षः, अपुनर्बन्धकत्वेनाऽऽत्मन आत्मन्येवावस्थानम् , तेन योजनाद्' घटनात् कारणात् । नेदं स्वमत्युत्प्रेक्षितं योगलक्षणमित्याह--- 'निर्दिष्टो योगिनाथैः' निर्दिष्टः – प्रतिपादितः, योगिनः-मुनयस्त- 15 न्नाथैः-वीतरागैरर्हद्भिरिति । अनेन मुक्तबाहुन्यमाह । तदद्वैते योगनरर्थक्यप्रसङ्गात्, सदन्तरस्य सदन्तरत्वानुपपत्तेः तत्रैव लयासम्भवात् । इति गाथार्थः ॥२॥
सज्ञानादिलक्षणमाहसण्णाणं वत्युगो बोहो, सदसणं तु तत्थ रुई । सच्चरणमणुटाणं विहि-पडिसेहाणुगं तत्थ ॥३॥
20 'सज्ञाने' सम्यग्ज्ञानं 'वस्तुगतः' वस्त्वाव(स्त्वा)लम्बनः 'बोधः' परिच्छेदः, निरालम्बनस्य बोधस्यासम्भवात्, सम्भवेऽपि सज्ज्ञानत्यायोगात् , मरुमरीचिकादिबोधे तथादर्शनात् , अन्यथा अस्य सदितरत्वाभाव इति । तथा 'सदर्शनं तु' सम्यग्दर्शनं पुनः 'तत्र' वस्तुनि 'रुचिः' श्रद्धा, “तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" [ तत्त्वार्थ ० अ० १ सू० २] इति वचनात् , अन्यथा चेय ज्ञानात् , आवरणभेदेन क्वचित् 25 तद्भा ३- द्वि० jवेऽप्यभावादिति । तथा 'सच्चरणं' सम्यक्चारित्रम् 'अनुष्ठान' क्रियारूपं विधि-प्रतिषेधानुग' विधि-प्रतिषेधावनुगच्छति, आगमानुसारीत्यर्थः । तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org