________________
श्रीहरिभद्रसूरिविरचितं
[ गा० १'नत्वा' प्रणम्य । कम् ? इत्याह -- योगिनार्थ' योगः-सज्ज्ञानादिसम्बन्धरूपो वक्ष्यमाणलक्षणो निश्चयादिभेदभिन्नः, स विद्यते येषां ते योगिनःमुनयः, तेषां नाथो योगिना २- प्र० थः, तथा च भगवान् वीतरागादीनां
पश्चानुपूर्व्या अपुनर्बन्धकावसानानां तथातथोपकारकरण-पालनाद् नाथः तम् । 5 अयमेव विशेष्यते— 'सुयोगसन्दर्शक' शोभनो योगः-औचित्यादिविशेषरूपतया एका‘न्ततः सानुबन्धफलहेतुः चित्रभेदो गुरुविनयादिरूप इति तस्य सन्दर्शकः-सम्यग्आसेवनोपदेशद्वारेण दर्शकः सन्दर्शकः, तथा च भगवांश्चरमदेहतया कर्मवशितायामपि तथाविधविनेयानुग्रहाय जानानोऽपि विचित्रानभिग्रहानासेवितवान् इति तम् ।
कमेवम्भूतम् ? इत्याह-- ‘महावीरे' "शूर वीर विक्रान्तौ” इति, कषायादिशत्रुजयाद् 10 महाविक्रान्तो महावीरः । "ईर गति-प्रेरणयोः” इत्यस्य वा विपूर्वस्य विशेषेणेरयति
कर्म याति वेह शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः-वर्तमानतीर्थेश्वरस्तम् । एवं नत्वा किम् ? अत आह- 'वक्ष्ये' अभिधास्ये । किम् ? इत्याह'योगलेश' योगैकदेशम्, तत्त्वतो व्यापकत्वेऽप्यस्य ग्रन्थाल्पतया एवंव्यपदेशः कर्पू
रादिलेशवदविरुद्ध एव । कुतो वक्ष्ये ? किं स्वमनीषिकया ? न, इत्याह- 'योगा15 ध्ययनानुसारेण' योगाध्ययनं-प्रवचनप्रसिद्धम्, तदनुसारेण-तन्नीत्या ।
___ एवं चेह ग्रन्थकारस्य योगलेशाभिधानमनन्तरप्रयोजनम् । योगलेश एवाभिधीयमानोऽभिधेयम्। [२-द्वि० ] साध्य-साधनलक्षणश्च सम्बन्धः । श्रोतॄणां तु योगलेशज्ञानमनन्तरप्रयोजनम् । परम्पराप्रयोजनं तु द्वयोरपि मुक्तिरेव, तत्त्वज्ञानपूर्विकत्वाद् मुक्तेः । न चास्य योगं मुक्त्वा अपर उपायः । यथोक्तम्--
"वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ॥ अध्यात्ममत्र परम उपायः परिकीर्तितः । गतौ सन्मार्गगमनं यथैव ह्यप्रमादिनः ॥ मुक्त्वाऽतो वादसङ्घट्टमध्यात्ममनुचिन्यताम् ।। नाविधूते तमस्कन्धे ज्ञेये ज्ञानं प्रवर्तते ॥
योगबिन्दुः ६७-६९ औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैंत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org