SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ॥ जयन्तु वीतरागाः॥ याकिनीमहत्तरासू नुश्रीहरिभद्रसरिविरचितं यो ग श त क म् । स्वोपज्ञटीकया समलङ्कृतम् । 5 [१- द्वि०] ॥ ॐ नमः सर्वज्ञाय ॥ योगशतकस्य व्याख्या प्रस्तूयते । इह चाऽऽदावेवाऽऽचार्यः शिष्टसमयप्रतिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थं चेदं गाथासूत्रमुपन्यस्तवान्– णमिऊण जोगिणाहं मुजोगसंदंसगं महावीरं । वोच्छामि जोगलेसं जोगज्झयणाणुसारेणं ॥१॥ तत्र शिष्टानामयं समयः, यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमाना: 100 सन्त इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते । अयमप्याचार्यों न हि न शिष्ट इत्यतस्तत्समयप्रतिपालनाय । तथा श्रेयांसि बहुविघ्नानि भवन्तीति । उक्तं च "श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥” इति । इदं च योगशतकं सम्यग्ज्ञानहेतुत्वात् श्रेयोभूतं वर्तते, अतो मा भूद विघ्न 15 इति विघ्नविनायकोपशान्तये "णमिऊण जोगिणाहं सुजोगसंदंसगं महावीरे' इत्यनेनेष्टदेवतास्तवमाह । प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्तन्त इति प्रयोजनादिप्रतिपादनार्थ च "वोच्छामि जोगलेसं जोगझयणाणुसारेण” इत्येतदाह । एष तावद् गाथाप्रस्तावः समुदायार्थश्च । अधुनाऽवयवार्थ उच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002645
Book TitleYogshatakam
Original Sutra AuthorHaribhadrasuri
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari & Yoga
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy