________________
७. श्लो० ३९२ तः ९४ मृत्युज्ञानचिह्नानि ।।
णाणं चागम-देवय-पइहा-सुमिणधरादऽदिट्ठीओ ।—योगश० गा० ९७. सक्षेपेणैतेषामुपर्युल्लिखितानां प्रमाणानामनुसन्धानेनेदं ब्रह्मसिद्धान्तसमुच्चयप्रकरणं श्रीहरिभद्राचार्यसंसूत्रितमेवाऽऽभाति । अपि चात्र मुख्यवृत्त्या योगशतकप्रकरणेनैव सह तुलना विहिताऽस्ति, किञ्च यदि श्रीहरिभद्रसूरिपादप्रणीतयोगबिन्दु-योगदृष्टिसमुच्चयअष्टकप्रकरण-घोडशकप्रकरण-विंशिकाप्रकरणादिभिः सहास्य प्रकरणस्य तुलना विधीयेत तदाऽस्य प्रकरणस्य श्रीहरिभद्रकृतत्वनिश्चायकानि प्रभूतानि प्रमाणानि समुपलभ्येरन्नित्यत्र न कश्चित् सन्देहलेश इति । प्रयतिष्यते किलैतदर्थ समयान्तरे पृथग्लेखरूपेण ।
अत्रैतत् किल ज्ञापनीयमस्ति यद्- इदं ब्रह्मसिद्धान्तसमुच्चयाख्यं प्रकरणं द्वात्रिंशत्पत्र ४२३ पर्य यावच्च खण्डितापूर्णरूपेण सम्प्राप्तमस्ति तथाप्यस्य प्रकरणस्य प्रान्तभागवर्ति एकं पत्रं पत्रद्विकमेव वा विनष्टं सम्भाव्यते, नाधिकमिति ।
अपि चैतत्प्रकरणावलोकनेनैतदपि सम्भाव्यते यत्- श्रीमद्भिर्हरिभद्रसूरिचरणैः सर्वदर्शनसमन्वयसाधकान्यन्यान्य येताद्देशि भिन्नभिन्नानि प्रकरणानि संसूत्रितान्यवश्यमेव भविष्यन्तीति ।
अन्ते तावदिदं निवेद्यते-येन कच्छमांडवीस्थखरतरगच्छीयजैनभाण्डागारप्रतिपालकेन शाह मोहनलाल पोपटलालमहानुभावेन स्वोपज्ञटीकायुता योगशतकप्रकरणप्रतिरतिचिरकालं यावदस्मभ्यमौदार्यभावेन समर्पिता, यैश्च विद्वत्प्रवरैरेतद्ग्रन्थयुगलस्य संशोधने भिन्नभिन्नरूपेण महामूल्यं साहाय्यं वितीर्णं तेभ्यः सर्वेभ्योऽपि साभारं धन्यवाददानं न विस्मरति मम हृदयम् ।
निवेदकःबृहद्गुरुप्रवर्तककान्तिविजयशिष्याणुगुरुप्रवरश्रीचतुरविजयचरणोपासकः
मुनिः पुण्यविजयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org