________________
ग्रन्थाद्यश्लोकोक्त विषयानुसारेण मत्परिकल्पितमेव । निर्माता पुनरस्य प्रकरणस्यैतद्ग्रन्थगतविषयादिविचारणेन याकिनीमहत्तरासू नुराचार्य श्रीहरिभद्रपाद आभाति । तथाहि —— तत्र तावद यथाऽन्येषु श्रीहरिभद्राचार्यविनिर्मितेषु योगदृष्टिसमुच्चयप्रभृतिग्रन्येषु श्रीमहावीरजिन नमस्कारः प्रतिपाद्यविषयोल्लेखश्च दृश्यते तथाऽत्रापि ग्रन्थ इति । तथा योगदृष्टिसमुच्चययोगंधिन्दु-अष्टकप्रकरण-विंशतिविंशिकादिप्रकरणेषु यादृशी विषयविभाग विचारणपरिपाटी यादृशश्च पारिभाषिकशब्दप्रयोग वरीवृत्यते तथैवात्रापि ग्रन्थे तादृश्येव विषयविचारणपरिपाटी तादृश एव च पारिभाषिक शब्दादिप्रयोगो दृष्टिपथमवतरति । तथा ललितविस्तरावृत्त्यादिवदत्रापि प्रकरणे ' आगमेनानुमानेन ०' इति श्लोकोऽपि वर्तते । एवमेव योगबिन्दुप्रकरणे ' दानं भृत्याविरोधेन ' इत्यत्र यथा 'भृत्याविरोध' वाक्यप्रयोगों वर्तते तथाऽत्रापि प्रकरणे ' भृत्यानामुपरोधेन ' ( श्लो० १९० ) ' भृत्यानामुपरोधश्व' (श्लो० २००) इत्यत्र दृश्यते। तथैव षोडशकप्रकरणे 'अद्वेषो जिज्ञासा' इत्यादिपद्ये यथाऽष्टाङ्गानां निरूपणं तथाऽत्रापि ' अद्वेषश्चैत्र जिज्ञासा ' ( लो० ३५ ) इति पचे निरीक्ष्यते । ललितविस्तरावृत्ति योगदृष्टिसमुच्चयादिषु यथा इच्छायोगादीनां स्वरूपं वर्तते तथैवाऽत्रापि प्रकरणे १८९-९१ पद्येषु निरूप्यते । तथा योगदृष्टिसमुच्चये यथाऽवेद्यसंवेद्यपदवयपि मित्राद्याद्यचतुर्दृष्टिगतविशिष्टगुणान्वितो व्यावर्णितोऽस्ति तथाऽत्रापि ' मिध्यादृष्टिरपि ह्युक्तः स च तादृक्क्क्रयान्वितः ' इति ५४ पद्ये व्यावर्णितोऽस्ति ।
एतानि पुनर्विशिष्टस्थानानि यान्यस्य प्रकरणस्य श्री हरिभद्राचार्यकृतत्वमावेदयन्ति
१. अत्राधिकारिणोऽप्युक्ता अपुनर्बन्धकादयः । त्रय एव० - लो० ३७ । अहिगारी पुण एत्थं विण्णेओ अपुणबंधगाइ ति । - योगश० गा० ९. न जानाति तामन्यो नष्टनाशनः - लो० १३६ ।
२.
गुरुगो अजोगि जोगो० जोगिगुणहील गाणणासणा०-- योगश० गा० ३७. ३. देवताबहुमानेन - श्लो० १६३ ।
गुरु- देवयाहि जाय - योगश० गा० ६२.
४. शिवज्ञानं य आसाद्य - इत्यादि २६३ - ६५ शिवागमश्लोकाः एतीए एस जुत्तो सम्मं असुहस्स खवग मोणेओ । - योगश० गा० ८५.
५. कायपातादिभावेऽपि शुभालम्बनयोगतः । - लो० १७१
तह कायपाइणो ण पुण चित्तमहिकिच्च बोहिसत्त त्ति । योगश० गा० ८८. ६. आश्चर्यभावतस्त्वाशु कश्चित् तेनैव जन्मना । —लो० ४१३ । तब्भवेण जाय जोगसमत्ती - योगश० १० गा० ९२.
जइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org