________________
पण्डितसुखलालजी-श्रीजिनविजयजी-प्रज्ञांशश्रीकल्याणविजयजी-डा० झवेरीइन्दुकलाभगिनीप्रभृतिभिरनेकैर्विद्वत्प्रवरैः सुबहु विचारितमुल्लिखितमपि चास्तीति नात्रार्थे कश्चित्प्रयासो विधीयते । केवलं श्रीहरिभद्रसूरिपादविरचितनवीनग्रन्थनामोल्लेखादिविषये किञ्चित् प्रयत्यते । तत्र तावत् प्रकाश्यमानैषा योगशतकप्रकरणस्य स्वोपजटीका कच्छदेशीयमांडवनगरस्थितखरतरगच्छीयजैनज्ञानकोशात् साम्प्रतमेव प्राप्ताऽस्ति । न खल्वियं ग्रन्थरचनाद्य यावद् ज्ञातचराऽऽसीदिति । तथाऽस्यां स्वोपज्ञटीकायां " निलोठितं चैतदुपदेशमालादिष्विति नेह प्रयत्नः” (पृ० २४ ) इत्युल्लेखदर्शनात् साम्प्रतं कुत्राप्यदृश्यमानः श्रीमद्भिर्विरचित उपदेशमालाख्यो ग्रन्थ आसीदिति निश्चीयते । एवमेव श्रीमद्भिर्मलयगिर्याचार्यपादैः श्रीजिनभद्रगगिक्षमाश्रमणचरगविनिर्मितसङ्ग्रहणीप्रकरणवृत्तौ श्रीहरिभद्रसूरिपुरन्दरविहितायास्तवृत्तेः स्थानस्थानेषु उल्लेखः कृतोऽस्तीत्यतस्तसंसूत्रिता सङ्ग्रहणीप्रकरणवृत्तिरप्यासीदिति । उपलभ्यते हीयं जेसलमेरुभाण्डागार-मत्सङ्ग्रहीतज्ञानकोशादिष्विति । अपरं च श्रीमद्भिर्याकिनीमहत्तरासूनुभिः स्वकीयाऽऽवश्यकशिष्यहिताख्यलघुवृत्तिप्रारम्भे “ यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि सङ्क्षपात् । तदुचितसत्त्वानुग्रहहेतोः क्रियते प्रयासोऽयम् ॥” इत्युल्लेखदर्शनाद् विदुषात्र तद् ज्ञातचरमेव यत्-श्रीमद्भिः पूर्व आवश्यकसूत्रोपरि बृहद्वृत्तिविरचिता, तदनन्तरं शिष्यहिताख्या लघुवृत्तिरिति । तथा मलधारिश्रीहेमचन्द्रसूरिपादसंसूत्रितशिष्यहितावृत्तिटिप्पनकान्तर्वर्तिनः “ यद्यपि मया वृत्तिः कृता" इत्येवंवादिनि च वृत्तिकारे चतुरशीतिसहस्रप्रमाणाऽनेनवाऽऽवश्यकवृत्तिरपरा कृताऽऽसीदिति प्रवादः” इत्युल्लेखदर्शनाञ्च सा बहद्वृत्तिश्चतुरशीतिसहस्रश्लोकप्रमाणाऽऽसीदित्यपि विदितचरमेव प्रज्ञावतां प्राज्ञानामिति । तथापि तत्र बृहद्वृत्तौ तैः सूरिशनैः के के पदार्थाः कथं व्यावर्णिताश्चर्चिता वाऽऽसन् ?' इत्यावेदकोऽतिगाम्भीर्यपूर्ण एक उल्लेखस्तैः स्वविरचितनन्दिसूत्रलघुवृत्तौ " साङ्केतिकशब्दार्थसम्बन्धवादिमतमप्यावश्यके नयाधिकारे विचारयिष्यामः " ( पृ० ६८ ) इतिरूपो निष्टङ्कितोऽस्ति । एतदेकोल्लेखमात्रदर्शनादेतज्ज्ञायते यत्-श्रीमद्भिस्तत्र बृहद्वृत्तौ दार्शनिकजगदाश्चर्यकारका एतादृशः सङ्ख्यातीताः पदार्था वादिमताश्च व्यावर्णिताश्चर्चिता निरस्ताश्चापि भविष्यन्तीति । दुर्दैवमेतदास्माकीनं यत् सा चिरकालादेव दुःषमाकालेन कवलितेति ।
ब्रह्मसिद्धान्तसमुच्चयकारः मत्परिकल्पितनाम्नः प्रस्तुतस्य ब्रह्मसिद्धान्तसमुच्चयाख्यस्यास्य प्रकरणस्यान्तिमं पत्रं तावन्नोपलब्धमिति तत्प्रणेतृ-तन्नामादिविषयकं किमपि प्रमाणं साक्षान्नास्तीति प्रागेवाऽऽवेदितम् । तत्र खण्डितापूर्णलब्धस्यास्य प्रकरणस्य 'ब्रह्मसिद्धान्तसमुच्चयः' इति नाम
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org