Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad
View full book text
________________
श्रीहरिभद्रसूरिविरचितं [गा०४४[१८-द्वि ०]न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियाऽपि हि । . अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला ॥
योगबिन्दुः २२२-२६] इति गाथार्थः ॥१३॥
प्रतिपन्नाधिकगुणस्थानकस्य विधिमाह
उड् अहिगगुणेहिं तुल्गुणेहिं च णिच्च संवासो।।
तग्गुणठाणोचियकिरियपालणासइसमाउत्तो ॥४४॥ 'ऊर्ध्वम् अधिकगुणस्थानप्रतिपत्तेरुत्तरकालं. अधिकगुणैस्तुल्यगुणैश्च प्राणिभिरात्मापेक्षया नित्यं संवासः । संवासो नाम औचित्येन तदुपजीवनादिनिजराफलः । 10 तथा 'तद्गुणस्थानोचितक्रियापालनास्मृतिसमायुक्तः' अस्मिन् गुणस्थानके व्यवस्थितेनेदं चेदं च कर्तव्यमिति स्मृतिसमन्वागतस्तदेव कुर्यात् । इति गाथार्थः ॥४४॥
उत्तरगुणबहुमाणो सम्म भवरूवचिंतणं चित्तं ।
अरईए अहिगयगुणे तहा तहा जत्तकरणं तु ॥४५॥
उत्तरगुणबहुमानः, अधिकृतगुणस्थानकापेक्षया उत्तरगुणस्थानकगुणराग इत्यर्थः । 15 तथा 'सम्यग्' वासितेनान्तःकरणेन संवेगक्रियासारं 'भवरूपचिन्तन' संसारस्वभा
वालोचनं 'चित्र' नानाप्रकारं कर्तव्यम् । तद्यथा – इह असारं जन्म, आश्रयो जरादीनाम् , व्याप्तं दुःखगणेनं, चला विभूतयः, अनवस्थिताः स्नेहाः, दारुणं विषयविषम् , रौद्रः पापकर्म(१९-प्र०)विपाकः पीडाकरोऽनुबन्धेन, मिथ्याविकल्पं सुखम् ,
सदा प्रवृत्तो मृत्युरिति, न धर्माद् ऋतेऽत्र किञ्चित् कर्तुं न्याय्यम् इत्येवमादि । 20 तथा अरतौ चाधिकृतगुणविषयायां चित्रकर्मोदयेन, किम् ? इत्याह- तथा तथा'
तेन तेन प्रकारेण भावशरणादिलक्षणेन 'यत्नकरणं तु' यत्न एव कर्तव्यः । इति गाथार्थः ॥४५॥
किमित्येतदेवम् ! इत्याह
अकुसलकम्मोदयपुव्यरूवमेसा 'जओ समक्खाया । सो पुण उवायसज्झो पाएण भयाइसु पसिद्धो ॥४६॥
____15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144