Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 59
________________ स्वोपशटीकालंकृतं योगशतकम् । विधिज्ञमहापुरुषगुरुसकाशे, प्रायशो भावाद् भावप्रसूतिः, क्वचित् केवलादप्याज्ञाराधनाद् आज्ञासमये कर्मवैचित्र्याद् अङ्गारमर्दककुगुरु-शिष्यन्यायेन, अतः सुगुरुसमीपे प्रतिपयते इत्ययमुपायः । तथा विधिना' तत्रापि वन्दनशुद्धयादिलक्षणेन । न हि सुगुरोरविधिरिति विधिसिद्धावपि विधिग्रहणं प्राधान्यख्यापनार्थमदुष्टम् । इति गाथार्थः ॥४२॥ अत एव विशेषतो विधिमभिधातुमाह -- बंदणमाई उ विही णिमित्तसुद्धी पहाण मो णेओ । • सम्म अवेक्खियधा एसा, इह[१८-प्र० रा विही ण भवे ॥४३॥ वन्दनादिः पुनर्विधिः तुलादण्डमध्यग्रहणनीत्या क्षेत्रशुद्धि-तत्सत्कार-जिनपूजारूपः तथा चैत्यवन्दन-तद्वन्दन-निरुद्धादिरूपश्च गृह्यते । अयं च निमित्तशुद्विप्रधान In एव ज्ञेयः, स्व-परगतकायिकादिनिमित्तशुद्धिप्रधान इत्यर्थः । ‘भाविन इष्टादेः सूचकानि निमित्तानि' इत्येतच्छुद्धिरपेक्षणीया, अत एवाह- सम्यगपेक्षितव्या 'एषा निमित्तशुद्धिः । 'इतरथा' तदनपेक्षायां विधिन भवति, आज्ञाविराधनात् । लेशाभिधानमेतत् , अत्र तु विशेषो विशेषग्रन्थानुसारत एव द्रष्टव्यः । सर्वथा नेदं लोकव्यवहारवद् यथाकथञ्चित्प्रतिपन्न प्रतिपन्नं भवति, किन्तु शास्त्रानुसारत इति शास्त्रमे- 15 वानुसरणीयम् , अन्यथा प्रत्यपायभावादिति । उक्तं च उपदेश विनाऽप्यर्थ-कामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति क्षेत्राऽऽस्तो भवेत् ॥ अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात् परः ॥ तस्मात् सदैव धर्मार्थ शास्त्रयत्नपरो भवेत् । लोके मोहान्धकारेऽस्मिन् शास्त्रालोकः प्रवर्तकः ॥ शास्त्रं चिन्तामणिः श्रेष्टः, शास्त्र कल्पद्रुमः परम् । चक्षुः सर्वत्रगं शास्त्र, शास्त्रं धर्मस्य साधनम् ।। १. तत्राऽऽदरो हितः इति योगबिन्दौ ॥ २. धमार्थी शास्त्रयत्नः प्रशस्यते इति योगाबन्दी ॥ ३. पापामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ।। इति योगबिन्दौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144