Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 46
________________ श्रीहरिभद्रसूरिविरचितं [गा० १३ कानि पुनस्तानि लिङ्गानि ? इत्याह पावं न तिब्वभावा कुणइ, ण बहुमण्णई भवं घोरं । उचियटिइं च सेवइ सव्वत्थ वि अपुणवंधो त्ति ॥१३॥ ‘पापम्' असदनुष्ठानं 'न तीव्रभावात्' न तीवभावेन करोति, करोति च 5 . तथाविधकर्मदोषेण । तथा न बहुमन्यते चित्तप्रीत्या 'भवं घोरं' भवन्त्यस्मिन् कर्म परिणामवशवर्तिनः प्राणिन इति भवः-संसारस्तं रौद्रम् । तथा 'उचितस्थितिं च' उचितव्यवस्थां च 'सेवते' भजते 'सर्वत्रापि' धर्मादौ मार्गानुसारित्वाभिमुख्येन मयूरशिशुदृष्टान्ताद् ‘अपुनर्बन्धक इति' एवम्-एवम्भूतोऽपुनर्बन्धकोऽभिधीयते इति गाथार्थः ॥१३॥ सम्यग्दृष्टिलिङ्गाभिधित्सयाऽऽह-- सुरसूस धम्मराओ गुरु-देवाणं जहासमाहीए । वेयावच्चे णियमो [७-प्र०) सम्मदिहिस्स लिंगाई ॥१४॥ 'शुश्रूषा' श्रोतुमिच्छा धर्मशास्त्रेषु, गेयरागिकिन्नरगेयशुश्रूषाधिका । तथा 'धर्मरागः' धर्माभिष्वङ्गः, सामग्रीवैकल्या[त् त]दकरणेऽपि चेतसोऽनुबन्धः, दरिद्रब्राह्मणविशेषहविःपूर्णरागसमधिकः । तथा 'गुरु-देवानां' चैत्य-साधूनां 'यथासमाधिना' 15 शक्त्याद्यनुरूपम् , नासद्ग्रहेण । किम् ? इत्याह-'वैयावृत्ये' व्यावृतभावे नियमः, गुणज्ञश्राद्धचिन्तामणिवैयावृत्यनियमाभ्यधिकः करोत्येवैतदित्यर्थः । सम्यग्दृष्टेः 'लिङ्गानि' चिह्नानि, ग्रन्थिभेदेन तत्त्वे तीवभावात् । इति गाथार्थः ॥१४॥ चारित्रिलिङ्गान्याह मम्गणुसारी सद्धो पण्णवणिज्जो कियापरो चेव । 20. गुणरागी सकारंभसंगो तह य चारित्ती ॥१५॥ मार्गानुसारी, चारित्रमोहनीयकर्मक्षयोपशमयोगात् ; अस्य च तत्त्वावाप्तिं प्रत्यवन्ध्यकारणत्वात् , कान्तारगतविवक्षितपुरप्राप्तिसद्योगतासमेतान्धवत् । तथा श्राद्धः, तत्त्वं प्रति तत्प्रत्यनीकक्लेशहासातिशयात् , सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृतद्गतविधिश्राद्धवत् , अनेनोत्तरयोगः पापयोगप्रतिबन्धकापगमहेतुरित्येतदाह । तथा प्रज्ञापनीयः, अत एव 235 कारणद्वयात् सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृतद्गतविधिश्राद्धाप्तप्रज्ञापकवत् , सच्छूद्धाफलोए दर्शनार्थमेतत् । तथा क्रियापरश्चैव, उक्तलक्षणादेव हेतोः, अनेन मार्गानुसारित्वस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144