Book Title: Yogshatakam
Author(s): Haribhadrasuri, Punyavijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 50
________________ श्रीहरिभद्रसूरिविरचितं [गा०२२इत्याह—आज्ञामृतसंयुक्तम्, तथाविधकर्मपरिणतेरेव भावतस्तत्सिद्धेः । “तथाविधकर्मपरिण तिरेवाज्ञामृतसंयोगोऽन्तरङ्गमङ्गम् , बाह्याज्ञायो[ १०-प्र० ]गस्यापि तन्निबन्धनत्वात् " इति विद्वत्मवादः । ततः किम् ? इत्यत आह-तदनुष्ठानं सर्वमेव परमार्थमधिकृत्य योगः । इति गाथार्थः ॥२१॥ एतत्प्रकटनायैवाहतल्लक्खणयोगाओ उ चित्तवित्तीणिरोहओ चेव । तह कुसलपवित्तीए मोक्खेण उ जोयणाओ त्ति ॥२२॥ 'तल्लक्षणयोगादेव' उचितानुष्ठानत्वेन योगलक्षणयोगादेव, “सर्वत्रोचितानुष्ठान योगः” इति तल्लक्षणोपपत्तेः । तथा चित्तवृत्तिनिरोधतश्चैव सर्वत्र यथासम्भवम् , योग10 लक्षणं चैतन्मुख्यम् , “योगश्चित्तवृत्तिनिरोधः"[ पातञ्जल०१-१] इति वचनात् । उभयत्रान्वर्थयोजनयोपसंहारः । 'तथा कुशलप्रवृत्त्या' तेन प्रकारेण कुशलप्रवृत्त्या हेतुभूतया मोक्षेण सह योजनात् कारणात् । अत एव प्रवृत्तिनिमित्ताद् योगः । इति गाथार्थः ॥२२॥ यद्यप्येतदेवं क्वचित् तथाप्येतानेवाधिकृत्य प्रायोगतं विधिमभिधातुमाह एएसि पि य पायं बझाणायोगओ उ उचियम्मि । अणुठाणम्मि पबित्ती जायइ तहसुपरिसुद्ध त्ति ॥२३॥ 'एतेषामपि च' अपुनर्बन्धकादीनां तथाविधकर्मपरिणतिसमन्वितानामपि प्रायः' बाहुल्येन 'बाह्याज्ञायोगत. एव' जिनवचनो १०-द्वि० ]पदेशलक्षणाद् 'उचिते' तीवभावेन पापाकरणादौ अनुष्ठाने प्रवृत्तिजोयते चित्रा( ! ता )नाभोगनिवृत्त्या तथा20 सुपरिशुद्धा दाढर्थेन भगवद्हुमानतः । इति गाथार्थः ॥२३॥ यत एवमतः किम् ? इत्याह गुरुणा लिंगेहिं तो एएसि भूमिगं मुणेऊण । उवएसो दायवो जहोचियं ओसहाऽऽहरणा ॥२४॥ 'गुरुणा' अन्वर्थव्यवस्थितशब्दार्थेन, गृणाति शास्त्रार्थमिति गुरुरित्यन्वर्थः । 25 'लिङ्गैः' प्रागुपदिष्टैः तीवभावेन पापाकरणादिभिः । 'ततः' तस्मात् कारणात् यस्मा दनन्तरोदितगाथोक्तं तथेति । 'एतेषाम्' अपुनर्बन्धकादीनां 'भूमिका' तत्तद्धर्मस्थान Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144