Book Title: Yogsar Part 02
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 9
________________ प्रकाशकीयम् पूर्वमहर्षिविरचितं पद्मीयवृत्ति-तद्गुर्जरभावानुवाद-विभूषितं योगसारं सहर्ष प्रकाशयामः । अज्ञातनामधेयैः पूर्वमहर्षिभिरेतद्ग्रन्थरत्नं विरचितम् । परमपूज्यवैराग्यदेशनादक्ष-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराणां शिष्यरत्नेन मुनिराजश्रीरत्नबोधिविजयेनाऽनेक-हस्तलिखितप्रतिसाहाय्येनैष मूलग्रन्थः संशोधितः । मुनिवर्येण मूलग्रन्थगतरहस्योद्घाटनार्थं 'पद्मीया वृत्तिः' इत्याख्या सरलसंस्कृतवृत्तिविरचिता । मुनिवर्येण पद्मीयवृत्तेः सरलगुर्जरभावानुवादोऽपि विरचितः । इत्थमेतद्ग्रन्थरत्नस्याऽभ्यासेन योगसारस्य साङ्गोपाङ्गोऽभ्यासो जायते । अपूर्वश्रुतसेवाकर्तारं मुनिवर्यं भूरि भूरि अनुमोदयामः । परमपूज्य-श्रीसीमन्धरजिनोपासक-आचार्यदेव-श्रीमद्विजय-हेमचन्द्रसूरीश्वराणां कृपा-प्रेरणा-मार्गदर्शनैरस्माकं ट्रस्ट: गतपञ्चत्रिंशद्वर्षेः जिनशासनस्य सप्तक्षेत्राणां शोभनां भक्तिं करोति । तत्राऽपि श्रुतोद्धारकार्यं सविशेष भवति । अद्यावधि पञ्चशताधिकशास्त्राणां समुद्धारः अस्माकं ट्रस्टेन विहितः । अग्रेऽपि वयं प्रवर्धमानां श्रुतसेवां कर्तुं शक्ता भविष्याम इति श्रुताधिष्ठायिकां श्रुतदेवतां प्रार्थयामहे । अस्य ग्रन्थरत्नस्य पठनेन सर्वे जीवा मुक्तिं प्राप्नुवन्त्विति अभिलषामः । लि. श्री-जिनशासन-आराधना-ट्रस्टस्य ट्रस्टिमहाशयाः चन्द्रकुमारभाइ बी. जरीवाला ललीतभाइ कोठारी पुण्डरीकभाइ ए. शाह विनयचन्द कोठारी

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 430