Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 297
________________ [२७४ ज [विवेकमञ्जरी यशोभद्रः शय्यम्भवकथायां वक्ष्यते । भद्रबाहुर्वज्रस्वामिकथायामुक्तः । अथातिमुक्तको यथा -- ___ पोलासपुरमित्यस्ति पुरं पुष्कलवैभवम् । तत्रासीद् विजयोर्जस्वी विजयो नाम पार्थिवः ॥१॥ श्रीदेवीति प्रिया तस्य सिंहस्वप्नेन सूचितम् । असूत सुतमुद्युक्तमतिमुक्तकसज्ञितम् ।।२।। तत्रान्यदा पुरेऽभ्येत्य श्रीवीरः समवासरत् । गौतमस्तु विवेशान्तविहर्तुं गणभृद्वरः ॥३॥ क्रीडन्नासीत्तदा दासीदासैरनुगतः पथि । क्रमाष्टवर्षदेशीयो राजपुत्रोऽतिमुक्तकः ॥४॥ स गौतमं समायान्तं वीक्ष्य चन्द्रं चकोरवत् । हृष्टोऽभिसृत्य नत्वा च जगादेति कृताञ्जलिः ।।५।। के यूयं भगवन्नत्र कथं विचरथोच्यताम् ।। अथ स्वामी जगौ स्मित्वा कुमारं सुकुमारगीः ॥६॥ देवानुप्रिय ! निर्ग्रन्था वयं श्रमणलिङ्गिनः । भिक्षार्थं विचरामोऽत्र पुरे पोलासनामनि ॥७॥ ततोऽतिमुक्तकः प्राह भिक्षां वो दापयाम्यहम् । इति स्वाम्यङ्गलीलग्नः स्वमगारमगाच्च सः ॥८॥ श्रीदेवी गौतमं वीक्ष्यातिमुक्तकसमन्वितम् । हृष्टाऽभ्येत्य प्रणम्यान्नपानीयैः प्रत्यलाभयत् ।।९।। निर्यान्तमथ साकूतं कुमारः प्राह गौतमम् । भगवन् । वसतौ कस्यां यूयं वसत कथ्यताम् ॥१०॥ स्वामी जगाद् देवानुप्रिय ! धर्मगुरुर्मम । श्रीवीरो यत्र समवसृतोऽस्ति नगराद् बहिः ॥११॥

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362