Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
गुणानुमोदनाद्वारे कूर्मापुत्रकथा ]
प्रत्येकं भट्टमुख्यांश्चाहूय दर्शनिनोऽन्वहम् । तत्तद्धर्मागमं राज्ञीं श्रावयामास भूपतिः || ४६|| स्वं स्वं धर्मागमं ते तु पञ्चाप्युच्चैर्व्यपञ्चयन् । तं तु हिंसात्मकं राज्ञी श्रावं श्रावमखिद्यत ॥४७॥ $$ ततो जैनान्मुनीन् भक्तयाऽऽहूय तद्धर्मदेशनाम् । श्रावयामास वसुधावासवस्तां क्षमाशचीम् ॥४८॥ जन्तुजातदयारूपं शृण्वन्ती सा जिनागमम् । संसारस्थापि मेने स्वं महानन्दपदे गतम् ॥४९॥ अथो नवसु मासेषु दिनेष्वर्धाष्टमेषु च । राज्ञ्यसूत सुतं कल्पद्रुमवद् मेरुचूलिका ॥५०॥ राज्याङ्गानि विमुच्यान्यत् पूर्णपात्रं वितन्वता । तस्य जन्मोत्सवश्चक्रे सुमहीयान् महीभुजा ॥५१॥ ततः सूनुरसौ राज्ञा महोत्सवपुरस्सरम् । दोहदानुगुणं धर्मदेव इत्यभ्यधीयत ॥५२॥ कूर्मापुत्र इति ख्यातः पुनरुल्लापनैरयम् । धात्रीभिः पञ्चभिः पाल्यमानः शिशुरवर्धत ॥५३॥ जनबन्धखेलातः पुरौपार्ण्यत कर्म यत् । खर्वनाम्नाऽमुना जज्ञे द्विहस्तोच्चवपुस्तु सः ॥ ५४ ॥ कलाचार्याश्रयादेव स कलाः सकला अपि । स्वत एवाऽऽपदादर्शो मृजामात्रादिव प्रभाम् ॥५५॥ आसन्नमुक्तचारित्रवशादेष वशी भूतम् । निकटे पल्वलादीनां शाड्वलाः स्यूर्न किं द्रुमाः ? ॥५६॥ विमुखो विषयेच्छायां यौवनस्थोऽप्यभूदयम् । कल्पते पशुधर्माय पशुरेव न तादृशाः ॥५७॥
हर्षी सैद्धान्तिकर्षीणां सविधं न मुमोच सः । किं चित्रमथवा योऽभूद् गर्भस्थोऽप्यागमस्पृहः ॥५८॥
३३५ ]
5
10
15
20
25

Page Navigation
1 ... 356 357 358 359 360 361 362