Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 357
________________ [३३४ [विवेकमञ्जरी केवली प्राह तं वत्स ! वन्दस्व पितराविमौ । किमेतदिति स प्रोचे केवल्याख्यच्च तत् तथा ॥३४॥ ततः कुमारः सोत्कण्ठं प्राग्वदालिङ्ग्य तौ स्यात् । प्रवृत्तो रोदितुं कृच्छ्राद् यक्षिण्याऽयमवार्यत ॥३५॥ देवदूष्याञ्चलेनास्य संप्रमाW दृशौ तदा । न्यवेश्यत स पादाब्जमूले केवलिनोऽनया ॥३६।। केवल्यपि हि संसारविषनाशसुधारम् । विदधे प्रतिबोधागावेशनं धर्मदेशनम् ।।३७|| तद् निशम्य चिरं सम्यग् यक्षिणी श्राविकाऽभवत् । तामापृच्छ्य कुमारस्तु भेजे गुर्वन्तिके व्रतम् ॥३८॥ तप्यमानस्तपस्तीवं सहमानः परीषहान् । अधीयानः कुमारर्षिः स चतुर्दशपूर्व्यभूत् ॥३९॥ कालं कृत्वा यथाकालममी पितृकुमारकाः । महाशुक्रेऽभवन् देवा विमाने मन्दिराभिधे ॥४०॥ यक्षिणी सापि वैशाल्यां भूत्वा स्त्री कमलाभिधा । तत्राभूत्तद्भवेष्टेन भ्रमरेण समं सुरः ॥४१॥ इतश्चास्ति पुरं राजगृहं लीलगृहं श्रियः । राजा महेन्द्रसिंहोऽभूत्तत्र सिंह इवौजसा ॥४२॥ कूर्मादेवीति राज्यस्य तस्याः कुक्षाववातरत् । च्युत्वा कुमारदेवोऽथ भवनस्वप्नसूचितः ॥४३॥ स्वप्नं तं भर्तुराचख्यौ कूर्मादेवी निशात्यये । राजा व्याख्यच्च ते देवि ! भावी श्रीभवनं सुतः ॥४४॥ ततोऽस्या हृष्टमनसो वहन्त्या गर्भभुत्तमम् । धर्मागमश्रुतौ जातसौहृदो दोहदोऽभवत् ॥४५॥

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362