Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
5
[ ३३८
अथ बाहुल्येन मुनिमुपश्लोकयति
विसमभवभमणनासणजिणसासणगयणमंडणमियंका । अन्ने वि महामुणिणो गुणिणो मम दिंतु सिद्धि सुहं ॥ ५४ ॥
[विषमभवभ्रमणनाशनजिनशासनगगनमण्डनमृगाङ्का । अन्येऽपि महामुनयो गुणिनो मह्यं ददतु सिद्धिसुखम् ॥]
[ विवेकमञ्जरी
व्याख्या
अन्येऽपि
धन्याद्या मुनयस्तावत् केचनापि नामतोऽभिहिताः, " समणह कोडिसहस्सदुअ थुणिज्जिय निच्च विहाणि " [जग. सूत्रे ] इति वाक्यात् पञ्चदशकर्मभूमिषु ये केचनापि वर्त्तन्त इत्यपरेऽपि, गुणिनः गुणाः क्षमाद्याः सन्ति येषां ते तथा, महामुनयो महर्षयः 'मम दिन्तु सिद्धिसुहं' मह्यं ददतु सिद्धि10 सुखम् । किं विशिष्टास्ते ? 'विसम त्ति' विषमः स्थपुट उच्चनीचजातिकुलाद्यारोहावरोहक्रमेण विसंस्थुलो योऽसौ भवस्तत्र भ्रमणं तत्तथा तन्नाशयति निराकरोति तत्तथा तच्च तज्जिनशासनमर्हन्मतं तदेव निर्मलत्वाद् महत्त्वाच्च गगनमाकाशं तस्य मण्डनाय मृगाङ्का दुष्कर्मसन्तप्तजन्तुजातह्लादनत्वाच्चन्द्रा इति ॥५४॥
―
१. श्रमणानां कोटिसहस्राद्विकं स्तूयेत नित्यं विधानेन ।

Page Navigation
1 ... 359 360 361 362