Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[३३६
[विवेकमञ्जरी
10
शृण्वानोऽन्वहमेवासौ यतिभ्यो जैनमागमम् । श्रुतपूर्वमिदं क्वापीत्यूहया जातिमस्मरत् ॥५९॥ ततश्च क्षपकश्रेणीरूढोऽज्ञानतमोव्ययात् । स जातकेवलालोको लोकालोकमलोकत ॥६०॥ व्यवहारमलङ्कर्तुं ग्रहीष्यामि यदि व्रतम् । तदिमौ पितरौ वक्षः स्फुटित्वा हि मरिष्यतः ॥६१॥ अज्ञातवृत्त्या तिष्ठे तदेतयोः प्रतिबोधये । इत्यस्थाद् भगवान् कूर्मापुत्रः सदन एव सः ॥६२॥ $$ इतो महाविदेहोर्व्यामस्ति स्वस्तिनिकेतनम् । विजये मङ्गलावत्यां नगरी रत्नसञ्चया ॥६३॥ देवादित्योऽभवत्तस्यामादित्य इव तेजसा । चक्रीति विदितः कामं विजयेन महीभुजाम् ॥६४|| जगत्यां विहरन्नर्हन् जगदुत्तमसञ्जितः । तदैत्य समवासार्षात् पुरीपरिसरे वने ॥६५॥ तं धर्मचक्रिणं चक्रवर्ती वन्दितुमाययौ । तद्विधाय यथास्थानं निषसाद कृताञ्जलिः ॥६६॥ इतो द्रोण-दुमादेव्यौ कमला-भ्रमरौ च ते । च्युत्वा भरतवैताढ्येऽभवन् विद्याधराङ्गजाः ॥६७।। चारणश्रमणीभूय चत्वारोऽपि समाहिताः। जगदुत्तमतीर्थेशं तेऽपीयुर्वन्दितुं तदा ॥६८।। नत्वा विभुं निषण्णेषु तेषु पप्रच्छ चक्रभृत् । कुतोऽमी नाथ ! चत्वारो धर्मांशा इव चारणाः ? ॥६९।। अमी भा(भ)रतवैताढ्याद् नाथोक्ते चक्रभृज्जगौ । भरते तीर्थकृच्चक्री केवली वास्ति सम्प्रति ? ॥७०।।
15

Page Navigation
1 ... 357 358 359 360 361 362