Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[३१८
[विवेकमञ्जरी आर्दकुमारोऽभयकुमारकथायाम्, कीर्तिधरस्तु सुकोशलकथायामुक्तः, नन्दिषुणस्तूच्यते, यथा - $$ अस्ति स्वस्तिश्रियोरेकगृहं राजगृहं पुरम् ।
नृपस्तत्र जितारातिश्रेणिः श्रेणिक इत्यभूत् ॥१॥ कुमारमण्डलीमौलिमण्डनं तस्य भूपतेः । नन्दिषेण इति ख्यातः सुतरत्नमजायत ॥२॥ अन्यदा विहरन् वीरः पुरग्रामकरादिषु । समेत्य समावासार्षीत् तत्रर्षीन्दुसमन्वितः ॥३॥ तन्निशम्य समायातं प्रणन्तुमथ पार्थिवः । सोमः सौम्येन वा नन्दिषेणेन सहितो ययौ ॥४॥ प्रणम्योचितभृपीठप्रतिष्ठे सति पार्थिवे ।
चकार भवनिष्कारदेशनी देशनां विभुः ॥५॥ "अस्मिन्नसारे संसारे सारमेकं तपः खलु । यतः स्वर्गापर्गोऽपि देहिनां करगोचरः" ॥६॥ श्रुत्वेति देशनां प्राप्ते नृपे निजनिकेतनम् । तं प्रव्रजितुमापृच्छद् नन्दिषेणो भवं द्विषन् ॥७॥ कृच्छादनुमतः पित्रा स दीक्षार्थी व्रजन् पथि । ऊचे शासनदेव्येदमन्तरिक्षतलस्थया ॥८॥ "किमुत्सुकायसे वत्स ! प्रवज्याग्रहणं प्रति । चारित्रावारकं भोगफलं कर्मास्ति यत्तव ॥९॥ कञ्चित्कालं प्रतीक्षस्व गृहे तत्कर्मणः क्षये । प्रवज्यां प्रतिपद्येथाः 'सर्वं काले फलेग्रहि ॥१०॥ चारित्रावारकं कर्म साधुसङ्गजुषो मम।। करिष्यति किमित्युक्त्वा स ययौ स्वामिनोऽन्तिके ॥११॥

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362