Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
३१७]
गुणानुमोदनाद्वारे पुण्डरीककथा]
कदाहं गुरुपादान्ते दान्तेन मनसा गतः । प्रव्रज्यां पालयिष्यामि यथाविधि समीरिताम् ॥७३॥ कदाहं भवदाहं च स्वरसप्रशमोर्मिभिः । गुरुपदेशतः सम्यक् शमयिष्यमामि सर्वथा" ॥७४॥ चिन्तयन्निति निर्माय शिरसि प्राञ्जलोऽञ्जलिम् । स्तुवन् पञ्चापि पञ्चाङ्गं ननाम परमेष्ठिनः ॥७५।। आहारोपधिदेहमोहरहितः श्रीपुण्डरीको मुनिश्रेष्ठः क्षामितसर्वजन्तुनिवहो लीनः परे ब्रह्मणि । तत्पूर्वाध्वपरिश्रमेण महता खिन्नोऽपि नास्थाद् महत्, चित्रं दीर्घपदप्रयाणविधिना सर्वार्थसिद्धि ययौ ॥७६।।
10
॥ इति श्रीपुण्डरीककथा ॥

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362