Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
३२१]
गुणानुमोदनाद्वारे करकण्डुकथा] अथ करकण्डुर्यथा - $$ आस्ते कलिङ्गदेशेषु पुरी चम्पेति विश्रुता ।
कूपच्छायेव लोकानां यत्रार्थ्याप्तिमनोरथाः ॥१॥ तत्र नक्षत्रनाथांशुगुणोज्ज्वलगुणोदधिः । राजाऽऽसीदपनीतारिवाहनो दधिवाहनः ॥२॥ चेटकोर्वीशदुहिता सहिता रूपसंपदा । राज्ञी तस्यापरिज्ञातच्छद्मा पद्मावतीत्यभूत् ॥३॥ संसारसुखसर्वस्वानुषङ्गिफलमन्यदा । ग) कादम्बिनीवार्काद् दधौ सा दधिवाहनात् ॥४॥ आसीत्तस्याः करिस्कन्धगताहं नृपवेषभृत् । विश्वग्राजधृतच्छत्रा विचरामीति दोहदः ॥५॥ पतिभक्ता न पत्ये तं दोहदं सा न्यवेदयत् । कृष्णपक्षेन्दुलेखावत् क्षीयते स्म तु केवलम् ॥६॥ नृपः शपथपूर्वं तामपृच्छत् खेदकारणाम् । तदाज्ञाभङ्गभीरुश्च साऽप्यथाऽकथयत् तथा ॥७॥ हर्षसन्दोहदे तस्या दोहदेऽथ महीभुजा । पृर्यमाणे ववर्षाब्दो मुदश्रुभिरिवाम्बुभिः ॥८॥ घनसिक्तमहीगन्धाद् विन्ध्याद्रिस्मृतिदुर्धरः । सिन्धुरः क्षमापदम्पत्योरुच्चचाल दिशैकया ॥९॥ हित्वा परिजनं सर्वमुत्पथेनाथ विप्लुतः । नामन्यतैष मातङ्गो गुरुशिक्षामिवाङ्कुशम् ॥१०॥ दूरस्थं पार्श्व एवाशु पार्श्वस्थं दूरतः पुनः । गजवेगेन संभ्रान्तौ दम्पती तावपश्यताम् ॥११॥ इति कर्तव्यतामूढो राजा न्यग्रोधमग्रतः । एकमालोक्य दयितां जगादोत्पन्नधीरिति ॥१२॥
15

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362