Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
गुणानुमोदनाद्वारे नन्दिषेणकथा]
निषिद्धः स्वामिनापीति रभसेन भृशायितः । प्रपेदे स परिव्रज्यां तत्पादकमलान्तिके" ॥१२॥ अथ षष्ठाष्टमादीनि तप्यमानस्तपांसि सः। व्यहार्षीत् प्रभुणा साकं द्रोणाकरपुरादिषु ॥१३॥ जपन् सिद्धान्तमनिशं सिद्धाकर्षणमन्त्रवत् । बिभीषिका इवासह्यान् सैष सेहे परीषहान् ॥१४॥ सङ्कटादिव निःसर्तुं स भोग्यफलकर्मणः । तपोभिः प्रतनूचक्रे स्वतनूमतनूद्यमः ॥१५।। महर्षिः सोऽन्यदैकाकी चिकीर्षुः षष्ठपारणम् । ययौ वेश्यागृहे धर्मलाभवाचमुवाच च ॥१६।। न नोऽर्थो धर्मलाभेन द्रव्यलाभोऽस्तु केवलम् । इति प्रत्याह तं वेश्या सोपहासविकारयुक् ॥१७॥ किं मां हन्त वराकीयं हसतीति विचिन्त्य सः । कृष्ट्वा नीव्रतृणं लब्ध्या रत्नराशिमपातयत् ॥१८॥ द्रव्यलाभोऽयमित्युक्त्वा स तस्माद्ववले गृहात् । ससम्भ्रमं तमभ्येत्य सापि वेश्येदमभ्यधात् ॥१९॥ अवक्रयाधमाँ मामाधाय त्वं क्व यास्यसि ? । नदीव रसपूर्णा यदलद्ध्याहं पुरस्तव ॥२०॥ तपःकष्टमिदं मुञ्च भुक्ष्व भोगान् मया सह । त्यक्ष्यामि सर्वथा प्राणान् प्राणनाथाहमन्यथा ॥२१॥ भूयो भूयस्तयेत्युक्तो भोगान्भोगान्विदन्नपि । भोग्यकर्मवशात् तस्या सोऽनुमेने वचस्ततः ।।२२।। शश्वद्दशाधिकान् वापि बोधयिष्यामि नो यदि । तदादास्ये पुनर्दीक्षां प्रतिज्ञामिति चाकृत ॥२३।।
15

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362