Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
10
गुणानुमोदनाद्वारे कूर्मापुत्रकथा]
३३१] हल्ल-विहल्लौ श्रेणिकसुतौ श्रीवीरशिष्यीभूय निर्वृतौ, शाल-महाशालौ तु पृष्ठचम्पायां राज-युवराजौ श्रीवीरात् प्रबुध्य प्रव्रज्य च मोक्षं गताविति विदितम्, सिंहगिरिस्तु श्रीवज्रस्वामिकथायामुपदिष्ट एव, आर्यमहागिरि-आर्यसुहस्तिनौ स्थूलभद्रकथायां तच्छिष्यौ कथितपूर्वी, आर्य्यरक्षितस्तु वज्रस्वामिकथायामुक्तः, शाम्ब-प्रद्युम्नौ तु कृष्णसुतौ श्रीनेमेः शिष्यीभूय शत्रुञ्जये सिद्धौ, प्रसिद्धमेतत् । 5 सम्प्रति कूर्मापुत्रो यथा - $$ पुरासीद् दुर्गमपुरे द्रोणो नाम नरेश्वरः ।
दुमादेवीभवश्चास्य सुतोऽभूद् दुर्लभाभिधः ॥१॥ स तु दुर्ललितः प्राप्तान् गृहे सेवादिकर्मणे । लोठयन् कन्दुकीकृत्य चेटांश्चिक्रीड सर्वदा ॥२॥ अन्यदा दुर्गिलोद्यानेऽभिधानेन सुलोचनः । तत्रैत्य समवासार्षीत् केवली सूरिरुत्तमः ॥३॥ तत्र भद्रमुखी नाम यक्षिण्येकाऽभवद् वने । बहुशालवटस्याधोभूमिवनवासिनी ॥४॥ केवलालोकभास्वन्तं स समेत्य सुलोचनम् । भक्त्या प्रणम्य पप्रच्छ पद्मकोशीकृताञ्जलिः ॥५॥ अहं मानवती नाम मानुष्यपि पुरा प्रभो ! वेलन्धरसुरस्याऽऽसं सुवेलाख्यस्य वल्लभा ॥६॥ तादृक्पुण्यक्षये स्वस्यायु:क्षये चागते समम् । मत्वा भद्रमुखी नाम यक्षिण्यहमिहाऽभवम् ॥७॥ सुवेलः कथमास्ते स स्वामिन्निति निवेदय । अथाख्यत् केवली भद्रे ! च्युत्वा स तदनन्तरम् ॥८॥ सुतो द्रोणनृपस्यास्ते जातस्ते वल्लभः खलु । आख्यया दुर्लभोऽप्येष सुलभोऽत्रैव पत्तने ॥९॥

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362