Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
5
10
[ ३३०
राजा दिग्विजयं कृत्वाऽन्यदाऽऽयातो ददर्श तम् । घट्ट्यमानं परैः शृङ्गैर्वृषभैस्तं जरद्गवम् ॥१०९॥ तन्मूला भूपतेरात्मवैभवादावपि क्षणात् । जले तैलमिवानित्यभावना प्रासरत्तदा ॥ ११०॥ विभवो वैभवं बन्धुयुवतीयौवनादिकम् । सर्वमेतच्चलं चण्डानिलोद्भूतार्कतूलवत् ॥१११॥ स्वयं बुद्ध्वेति साम्राज्यमुत्सृज्य तृणखण्डवत् । परिव्रज्यामुपादत्त सिद्धसाक्षिकमेव सः ॥११२॥ देवतार्पितलिङ्गोऽयं द्वादशाङ्गीधरः स्वयम् । विजहार धरापीठे कर्मसामजकेसरी ॥११३॥
[ विवेकमञ्जरी
एतत्ततो जगदनित्ययाभिनाट्यमानं विलोकितुमिवाश्रितकेवल श्रीः । प्रत्येकबुद्धमुनिराट् करकण्डुनामा धामाध्यरोहदपुनर्भवनामधेयम् ॥११४॥
॥ इति श्रीकरकण्डुकथा ॥

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362