Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 351
________________ [३२८ [विवेकमञ्जरी करकण्डुस्तु तज्ज्ञात्वा पितृभ्यां सहितो निशि । निरीय काञ्चनपुरं ययौ श्रान्तस्त्विहाऽस्वपीत् ।।८५॥ इतश्च तन्नृपोऽकस्मादपुत्रः पञ्चतां गतः । .. दिव्यानि पञ्च तत्कालमध्यवास्यन्त मन्त्रिभिः ॥८६॥ भ्रान्त्वा पुरान्तराऽमूनि बहिस्तत्पार्श्वमाययुः । असौ गजेन गर्जित्वा पुण्येनेभ्यषिच्यत ॥८७।। अश्वोऽथाहेषत च्छवं व्यकसत् कीर्तिवद्दिवि । पुरोधा मन्त्रमपठच्चामरे चापि चेलतुः ॥८८॥ पुरप्रवेशं तस्याथ करकण्डोर्महीपतेः । तदा सम्भूय नायच्छंश्चाण्डालोऽयमिति द्विजाः ॥८९॥ करकण्डुस्ततो वंशरत्नं पस्पर्श पाणिना । तत्र ज्वलति नेशुश्च प्रत्युह इव ते द्विजाः ॥१०॥ नृपासनमथासीनः पौरप्रकृतिभिर्नतः । छत्राधः स्थापयित्वा स पितरौ तावचोक्षयत् ॥११॥ दधिवाहनपुत्रेण राज्ञाथ करकण्डुना । वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः ॥१२॥ कण्डूलकाख्यमेतेभ्यो महास्थानमयं ददौ । ईश्वरेच्छा हि यत्कृत्यविधावस्खलिता खलु ॥१३॥ तेनैत्य बटुना चम्पासन्नं ग्राममथार्थितः । स्वग्रामव्यत्ययेनैष लेखं चम्पेन्दवे ददौ ॥९४|| अनात्मनीनश्चाण्डालोऽस्माल्लेखेनैष भाषते । इति चम्पेन्दुराकोशल्लेखं त्वस्फाटयत् कुधा ॥९५।। करकण्डुरपि ज्ञात्वा तत्कोपाटोपभीषणाः । दधिवाहनमुच्छेत्तुं तदानीमभ्यषेणयत् ॥९६।। 15

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362