Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 349
________________ 5 10 15 20 [ ३२६ $$ विमृशतीति तत्पृष्ठे लग्ना साऽध्वनि धेनुवत् । चाण्डालस्त्वविशद् वाटधानकाख्यं स्वपाटकम् ॥६१॥ प्रिये ! ते निरपत्यायाः सुतरत्नमुपायनम् । ब्रुवाण इति पाणस्तं स्वपत्न्यै बालमार्पयत् ॥६२॥ ‘“इदं पद्मावती दृष्ट्वौदासीन्यादित्यचिन्तयत् । अहो ! विचित्रता कापि कर्मणामवलोक्यते ॥ ६३ ॥ क्व सम्भवः शिरोरस्य भूभुजां विमले कुले । क्व च श्वपचगेहेऽस्मिन् विश्रामश्च कलङ्कदः ?" ॥६४॥ इत्युत्तेजितवैराग्या सा प्रविश्य पुरान्तरा । व्रतं निवृत्तकामादात् प्रवर्तिन्या पदान्तिके ॥६५॥ गुरूपास्तिमुरीकृत्य नित्यमेवोत्तमं तपः । तन्वती मोक्षसाधीयः साऽधीयायोचितं श्रुतम् ॥६६॥ दुस्त्यजापत्यमोहेन मोदकादि कदाचन । पुत्रायोपनयन्ती सा चक्रे तामन्त्यजां सखीम् ॥६७॥ बालकः स तु पूर्वस्मिन् भवेऽभूत् क्षपकाग्रणीः । आदाय स्वांशुकाद् यूकाः परवस्त्रेषु चाक्षिपत् ॥६८॥ तप:प्रभावाज्जज्ञे भूपतेस्तनुभवस्ततः । चाण्डालपुत्रकश्चाभूदुत्तमोऽहमिति स्मयात् ॥६९॥ परवस्त्रेषु चात्मीययूकाक्षेपविपाकतः । भवेऽस्मिन्नुदियायायास्य कण्डूरुद्दण्डवेदना ||७० ॥ स पञ्चवर्षदेशीयः क्रीडंश्चाण्डालदारकान् । नृपीभूय करे कण्डूकण्डूयनमयाचत ॥७१॥ अमीभिस्तच्च कुर्वाणैडिम्भोऽयं दाधिवाहनिः । करकण्डुरिति स्वैरमभ्यधीयत दारकैः ॥७२॥ [ विवेकमञ्जरी

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362