Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
गुणानुमोदनाद्वारे पुण्डरीककथा ]
चिन्तयित्वेति राजापि प्रधानैः कैश्चिदन्वितः । उद्यानमागतोऽपश्यत् कण्डरीकं तथास्थितम् ॥४९॥ तदालोक्य महीपालः शोकेनाङ्गीकृतो हृदि । व्यमृशत् तातपुत्रोऽयं हा ! कर्मवशगोऽभवत् ॥५०॥ आरोपयामि लज्जायां तदेनं विधिवन्दनात् । चेततेऽसौ यदि पुनः प्रच्युतः स्वप्रतिश्रवात् " ॥५१॥ चिन्तयित्वेति निर्मायोत्तरासङ्गं यथाविधि । वन्दित्वा तं नृपोऽपृच्छत् प्राञ्जलिः सुखसंयमम् ॥५२॥ ततोऽसौ प्राह विहितमियत्कालं मया तपः । राज्यार्थी साम्प्रतं राजन् ! भवन्तमहमागमम् ॥५३॥ स्वबन्धोर्व्रतखिन्नस्य वचः श्रुत्वा व्रतार्थ्यसौ । शोकहर्षाश्रुमानूचे प्रधानानिति भूपतिः ॥५४॥
“भोः ! भोः ! सचिवसामन्ताः ! बन्धुर्भे वोढुमक्षमः । व्रतं वत्सतरो भारमिव तेनागतो मयि ॥५५॥ कारणीयस्ततो राज्यमयं प्राज्यमहं यथा । युष्माभिरनुभन्तव्योऽस्मि च संयमहेतवे ॥५६॥ आपृच्छ्येति प्रधानांस्तद्यतिलिङ्गमुपाददे । निजं च कण्डरीकाय राज्यलिङ्गं नृपो ददौ " ॥५७॥ कण्डरीकस्ततः साकं प्रधानैः पुरमाविशत् । भद्रासनं च स्वपितुः काकश्चैत्यमिवाश्रयत् ॥५८॥ माङ्गलिक्यं व्यधुस्तस्य सामन्तसचिवादयः । बहिरन्तश्च तैनोच्चैः शल्येनेवातिदुःखिताः ॥५९॥ अयं सूदानथादिक्षद् दुष्कालादिव निःसृतः । प्रगुणं मत्कृते सर्वमशनं कुरुताशु रे ! ||६० ॥
३१५]
5
10
15
20

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362