Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 336
________________ ३१३] गुणानुमोदनाद्वारे पुण्डरीककथा] यौवने मुक्तिवर्मेदं परं न वहते यतः । स्वस्थानेऽत्र स्थितात् कामचरटाद् भयमुत्कटात् ॥२५॥ स्मरस्य विषयानस्य भञ्जयन्ती समन्ततः । मुखे शिबिरदन्तांश्च पातयन्ती निरन्तरान् ॥२६॥ पञ्च वल्लभवाजीन्द्रान् खञ्जयन्तीन्द्रियाणि च । भस्मयन्ती च कबरीगरीयोवनजालिकाम् ॥२७॥ जरा यदा तु चारित्रसेनानीशमवाहिनी । दिग्जयं कुरुते मोक्षमार्गोऽयं सुवहस्तदा ॥२८॥ विशेषकम् ।। तन्ममेयं जरा वत्स ! व्रतसाहाय्यकारणम् । तेन त्वां वच्मि तारुण्यं यावत्तावद् गृहे वस ॥२९॥ जाते राज्यधरे पुत्रे तारुण्ये चात्र जीर्यति । स्वकुलाचारतः पश्चाद् गृह्णीयास्त्वमपि व्रतम्" ॥३०॥ "अथाह कण्डरीकोऽपि युक्तमार्य ! त्वयोदितम् । परं तत्पौरुषं मन्ये यत्तारुण्येऽपि संयमः ॥३१॥ महापद्मसुतः किं न त्वत्कनिष्ठश्च किं न हि । अहं तदाग्रहं कृत्वा यद् गृह्णामि न संयमम् ॥३२॥ संसारो दुस्त्यजस्तावद् व्रतं तावच्च दुष्करम् । दुष्प्रापं च शिवं तावद्धीरा यावदुदासते ॥३३॥ प्रतिज्ञामिति निर्माय वार्यमाणोऽपि बन्धुना । सोत्सवं कण्डरीकोऽथ व्रतं जग्राह साग्रहः" ॥३४॥ कोऽपि राज्यधरो यावदेधते तावदुन्मनाः । पुण्डरीकः पुना राज्येऽप्यस्थाद्भावेन संयमी ॥३५॥ तप्यमानस्तपस्तीव्र सहमानः परीषहान् । कण्डरीकमुनिः साकं गुरुभिर्व्यहरद् भुवि ॥३६॥

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362