Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
5
10
15
20
[ ३१४
यथा कालं वसन्तर्तुरथ प्रावर्तताऽन्यदा । कूजितैः कलकण्ठीनामकुण्ठीकृतमन्मथः ॥३७॥ पलाशपुष्पदीपालिमालितेऽवनिमण्डले । पुष्पाणि पूरयत्युच्चैर्मधावुत्तरसाधके ॥३८॥
भृङ्गकूजितह्वीङ्कारमन्त्रजापपरायणः । कण्डरीकं वशीचक्रे तदा मन्मथमान्त्रिकः ||३९|| युग्मम् ॥
"
“चारित्रावरणे कर्मण्युदितेऽचिन्तयत् ततः । कण्डरीकमुनिः कोऽयमपस्मारो व्रतं मम ||४०|| दुर्विधानां च वृद्धानामुभयेषां व्रतं मतम् । येषां भोगेष्वसंपत्तिरशक्तिश्च किल कमात् ॥४१॥ हहा ! तदाहमार्येण वारितोऽप्यभजं व्रतम् । अथवाऽद्यापि किं नाम विनष्टं मे त्यजाम्यदः ||४२ || व्रजामि द्विगुणैर्भोगैः पूरयामि सुखक्षतिम् । तदार्यदित्सितं राज्यमादायात्मक्रमागतम् ॥४३॥ चिन्तयित्वेति शयितान् मुक्त्वा गुरुपदाम्बुजान् । प्रकृत्या मलिनः सोऽगाद् भृङ्गवत् पुण्डरीकिणीम् ॥४४॥ स तत्रोपवने गत्वोपधिमालम्ब्य शाखिनि । कण्डरीको विशिश्राम श्रान्तः शाड्वल भूतले ||४५ ॥ उद्यानपालकेनाथ ज्ञापयामास भूपतिम् । भूमानपि तदाकर्ण्य विस्मयादित्यचिन्तयत् ॥४६॥ "व्रते भग्नप्रतिज्ञोऽयमेकाकी यदिहागतः । महासत्त्वोऽथवैकाप्रतिमास्थो भविष्यति ||४७||
तथाप्यल्पपरिवार एव यामि तदन्तिके । कथञ्चनायं भग्नः ‘स्याद्विचित्रा कर्मणां गतिः ॥४८॥
[ विवेकमञ्जरी

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362