SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 [ ३१४ यथा कालं वसन्तर्तुरथ प्रावर्तताऽन्यदा । कूजितैः कलकण्ठीनामकुण्ठीकृतमन्मथः ॥३७॥ पलाशपुष्पदीपालिमालितेऽवनिमण्डले । पुष्पाणि पूरयत्युच्चैर्मधावुत्तरसाधके ॥३८॥ भृङ्गकूजितह्वीङ्कारमन्त्रजापपरायणः । कण्डरीकं वशीचक्रे तदा मन्मथमान्त्रिकः ||३९|| युग्मम् ॥ " “चारित्रावरणे कर्मण्युदितेऽचिन्तयत् ततः । कण्डरीकमुनिः कोऽयमपस्मारो व्रतं मम ||४०|| दुर्विधानां च वृद्धानामुभयेषां व्रतं मतम् । येषां भोगेष्वसंपत्तिरशक्तिश्च किल कमात् ॥४१॥ हहा ! तदाहमार्येण वारितोऽप्यभजं व्रतम् । अथवाऽद्यापि किं नाम विनष्टं मे त्यजाम्यदः ||४२ || व्रजामि द्विगुणैर्भोगैः पूरयामि सुखक्षतिम् । तदार्यदित्सितं राज्यमादायात्मक्रमागतम् ॥४३॥ चिन्तयित्वेति शयितान् मुक्त्वा गुरुपदाम्बुजान् । प्रकृत्या मलिनः सोऽगाद् भृङ्गवत् पुण्डरीकिणीम् ॥४४॥ स तत्रोपवने गत्वोपधिमालम्ब्य शाखिनि । कण्डरीको विशिश्राम श्रान्तः शाड्वल भूतले ||४५ ॥ उद्यानपालकेनाथ ज्ञापयामास भूपतिम् । भूमानपि तदाकर्ण्य विस्मयादित्यचिन्तयत् ॥४६॥ "व्रते भग्नप्रतिज्ञोऽयमेकाकी यदिहागतः । महासत्त्वोऽथवैकाप्रतिमास्थो भविष्यति ||४७|| तथाप्यल्पपरिवार एव यामि तदन्तिके । कथञ्चनायं भग्नः ‘स्याद्विचित्रा कर्मणां गतिः ॥४८॥ [ विवेकमञ्जरी
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy