Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 313
________________ [२९० [विवेकमञ्जरी 5 10 चिरं प्रतारितोऽसि त्वं मया स्वोदरपूर्तये । नातः परमुपाध्यायस्तवास्मि स्वस्ति तेऽनघ ! ॥२५॥ शय्यम्भवोऽपि तं नत्वा यज्ञोपाध्यायमब्रवीत् । -- त्वमुपाध्याय एवासि सत्यतत्त्वप्रकाशनात् ॥२६।। इति दत्त्वाऽस्य यज्ञोपकरणं सर्वमप्यसौ । ययौ मुनिपरेव प्रभवस्वामिसन्निधौ ॥२७॥ वन्दित्वा सपरीवारं गुरुमग्रे निविष्टवान् । पप्रच्छ धर्मतत्त्वं स मुक्तिमार्गमनर्गलम् ॥२८॥ अहिंसा सत्यमस्तेयं ब्रह्माकिञ्चन्यमित्यथ । धर्मतत्त्वं दिदेशास्मै प्रभवोऽपि भवोज्झनम् ॥२९॥ श्रुत्वेति विलसद्बोधः प्रभवस्वामिनोऽन्तिके । शय्यम्भवो भवोद्विग्नः परिव्रज्यामुपाददे ॥३०॥ तप्यमानस्तपस्तीव्रमधीयानो महामतिः । गुरुपादप्रसादेन स चतुर्दशपूर्व्यभूत् ॥३१॥ श्रुतज्ञानादिना तुल्यं मूर्त्यन्तरमिवात्मनः । प्रभवस्तं पदे न्यस्य परलोकमसाधयत् ॥३२॥ शय्यम्भवो यदा पर्यव्राजील्लोकस्तदाखिलः । तद्भार्यां रुदतीं दृष्ट्वा शोचयन्निदमभ्यधात् ॥३३।। भट्टः शय्यम्भवः कष्टं निष्ठरेभ्योऽपि निष्ठुरः । स्वप्रियां तरुणीमेतां सुशीलामपि योऽत्यजत् ॥३४॥ पुत्राशयैव जीवन्ति योषितो हि पतिं विना । अभूत् पुत्रोऽपि नैतस्याः कथमेषा भविष्यति ॥३५॥ पृच्छन्ति स्म च लोकास्तामयि ! शय्यम्भवप्रिये ! गर्भसम्भावना कापि किं नामास्ति तवोदरे ? ॥३६।।

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362