________________
[२९०
[विवेकमञ्जरी
5
10
चिरं प्रतारितोऽसि त्वं मया स्वोदरपूर्तये । नातः परमुपाध्यायस्तवास्मि स्वस्ति तेऽनघ ! ॥२५॥ शय्यम्भवोऽपि तं नत्वा यज्ञोपाध्यायमब्रवीत् । -- त्वमुपाध्याय एवासि सत्यतत्त्वप्रकाशनात् ॥२६।। इति दत्त्वाऽस्य यज्ञोपकरणं सर्वमप्यसौ । ययौ मुनिपरेव प्रभवस्वामिसन्निधौ ॥२७॥ वन्दित्वा सपरीवारं गुरुमग्रे निविष्टवान् । पप्रच्छ धर्मतत्त्वं स मुक्तिमार्गमनर्गलम् ॥२८॥ अहिंसा सत्यमस्तेयं ब्रह्माकिञ्चन्यमित्यथ । धर्मतत्त्वं दिदेशास्मै प्रभवोऽपि भवोज्झनम् ॥२९॥ श्रुत्वेति विलसद्बोधः प्रभवस्वामिनोऽन्तिके । शय्यम्भवो भवोद्विग्नः परिव्रज्यामुपाददे ॥३०॥ तप्यमानस्तपस्तीव्रमधीयानो महामतिः । गुरुपादप्रसादेन स चतुर्दशपूर्व्यभूत् ॥३१॥ श्रुतज्ञानादिना तुल्यं मूर्त्यन्तरमिवात्मनः । प्रभवस्तं पदे न्यस्य परलोकमसाधयत् ॥३२॥ शय्यम्भवो यदा पर्यव्राजील्लोकस्तदाखिलः । तद्भार्यां रुदतीं दृष्ट्वा शोचयन्निदमभ्यधात् ॥३३।। भट्टः शय्यम्भवः कष्टं निष्ठरेभ्योऽपि निष्ठुरः । स्वप्रियां तरुणीमेतां सुशीलामपि योऽत्यजत् ॥३४॥ पुत्राशयैव जीवन्ति योषितो हि पतिं विना । अभूत् पुत्रोऽपि नैतस्याः कथमेषा भविष्यति ॥३५॥ पृच्छन्ति स्म च लोकास्तामयि ! शय्यम्भवप्रिये ! गर्भसम्भावना कापि किं नामास्ति तवोदरे ? ॥३६।।