________________
गुणानुमोदनाद्वारे शय्यम्भवकथा ]
मनागित्यभिधातव्ये सापि प्राकृतभाषया । ऊचे मणयमित्यल्पमात्रगर्भा ह्यभूत् तदा ||३७| तस्याश्च ववृधे गर्भः प्रत्याशेव शनैः शनैः । समयेऽपि सुतो जज्ञे तन्मनोऽम्भोधिचन्द्रमाः ||३८|| तदा मणयमित्यासीद् ब्राह्मण्या कृतमुत्तरम् । अतस्तस्यापि बालस्याभिधा मणक इत्यभूत् ॥३९॥ पाल्यमानोऽर्भकः सोऽष्टवर्षीभूतो जगाद ताम् । क्व नाम तातो मे मातर्वेषेणाविधवासि यत् ? ॥४०॥ सोचे यज्ञरतस्तातस्तव शय्यम्भोऽभवत् । प्रतार्य व्रतिभिर्धूर्तैर्नीतो गर्भगते त्वयि ॥४१॥ पितुः शय्यम्भवस्यर्षेर्मिलनायोत्सुकः स तु । निरियाय गृहाद्वालो वञ्चयित्वा मातरम् ॥४२॥ तदा शय्यम्भवाचार्यश्चम्पायां विहरन्नभूत् । ययौ बालोऽपि तत्रैव स्वर्णा पातालमध्विव ॥४३॥ कायचिन्तादिना सूरिः पुरिपरिसरे व्रजन् । बालमिन्दुमिवायान्तं दृष्ट्वाऽमोदत वार्धिवत् ॥४४॥ दृष्ट्वा बालोऽपि तं सूरिं सूरं कमलकोशवत् । विकसद्वदनो जज्ञे स्फुटरोमाञ्चकण्टकः ॥४५॥ अथापृच्छत् तमाचार्या बालमुत्फालहर्षभाक् । कस्त्वं कृतस्तथाऽयासीर्वत्स ! पुत्रोऽसि कस्य च ? ॥४६॥ सोऽर्भकोऽभिदधे राजगृहादत्राहमागमम् ।
सूनुः शय्यम्भवस्यास्मि वत्सगोत्रद्विजन्मनः ॥४७॥
मम गर्भगतस्यापि प्रवज्यामाददे पिता ।
पुरात् पुरं तमन्वेष्टुं सम्भ्रमीव भ्रमाम्यहम् ॥४८॥
२९१]
5
10
15
20