SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ [२९२ [विवेकमञ्जरी जानते यदि ते तातं बत शय्यम्भवं ततः । पूज्यपादाः प्रसीदन्तु क्व सोऽस्तीति वदन्तु च ॥४९॥ पितरं यदि पश्यामि तदा तत्पादसन्निधौ । प्रव्रजाम्यहमप्यङ्ग या गतिस्तस्य सैव मे ॥५०॥ . ... सूरिरप्याह तातं ते जानामि स सुहन्मम । शरीरेणाप्यभिन्नश्चायुष्मंस्तमिव विद्धि माम् ।।५१॥ तन्ममैव सकाशे त्वं परिव्रज स ते पिता । ज्ञेयो मिलित एवात्रास्माकमेवातिथिर्भव ॥५२॥ सूरिस्तं बालमादायादीक्षयद्वसतौ गतः । सर्वसावधविरतिप्रतिपादनपूर्वकम् ॥५३॥ उपयोगं ददौ योगी कियदस्यायुरित्यथ । षण्मासान् यावदस्तीति तच्च सद्यो विवेद सः ॥५४॥ अत्यल्पायुरयं बालो भावी श्रुतधरः कथम् । इत्युद्दधार सिद्धान्तसारं सूरिवरस्ततः ॥५५॥ कृतं विकालवेलायां दशाध्ययनगर्भितम् । दशवैकालिकं तेन नाम्ना शास्त्रं बभूव तत् ॥५६॥ गुरूपदेशात्तं ग्रन्थं पठित्वा विधिना सुधीः । षण्मासान्ते तु मणकः कालं कृत्वा गयौ दिवि ॥५७।। मणकेऽत्र विपेदाने सूरीनश्रूणि मुञ्चतः ।। यशोभद्रादयो नत्वाऽभ्यधुः किमिदमर्हति ? ॥५८॥ ततो मणकवृत्तान्तं सुतसम्बन्धबन्धुरम् । सूरयः कथयामासुस्तज्जन्ममरणावधि ॥५९॥ ऊचुः शिष्या नमद्ग्रीवा यशोभद्रादयस्ततः । पूज्यैरपत्यसम्बन्धः किमादौ ज्ञापितो न न: ? ॥६०॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy