________________
२९३]
गुणानुमोदनाद्वारे शय्यम्भवकथा]
गुरुवद् गुरुपुत्रेऽपि वर्तेतेति वचो वयम् । अकरिष्यामहि तदा सत्यं तत्पर्युपासनात् ॥६१॥ सूरिरूचे तदा नास्याभविष्यत् सुगतिप्रदम् । वयोवृद्धेषु युष्मासु वैयावृत्त्योत्तमं तपः ॥६२॥ ज्ञातास्मत्पुत्रसम्बन्धा यूयं हि मणकाद् मुनेः । नाकारयिष्यतोपास्ति स्वार्थं सोऽथ व्यमोक्ष्यत ॥६३॥ अमुमल्पायुषं मत्वा कर्तुं श्रुतधरं मया । सिद्धान्तसारमुद्धृत्य दशवैकालिकं कृतम् ॥६४॥ यथास्थानं नयाम्येतदिति जल्पन् गुरुस्ततः । शिष्यसङ्घोपरोधेन शास्त्रं समवृणोद् न हि ॥६५॥ अथ शय्यम्भवः सूरियशोभद्रं महामुनिम् । श्रुतसागरपारीणं पदे स्वस्मिन् न्यवेशयत् ।।६६।। अनङ्गहार्यप्ययमङ्गहारी गुणैरपूर्वोऽपि सपूर्व एव । शय्यम्भवो जृम्भितकीर्तिपूरः पूर्णायुरुच्चैः पदमाससाद ॥६७॥
॥ इति श्रीशय्यम्भवकथा ॥