SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २८९] 10 गुणानुमोदनाद्वारे शय्यम्भवकथा] इत्यपृच्छदुपाध्यायं किं तत्त्वं मझु कथ्यताम् ! उपाध्यायोऽवदत् तत्त्वं वेदाः स्वर्गापवर्गदाः ॥१३॥ शय्यम्भवोऽभ्यधाद् नूनं प्रतारयसि मादृशान् । यज्ञादिदक्षिणालोभावेदास्तत्त्वमिति ब्रुवन् ॥१४॥ मुनयो निर्ममा वीतरागद्वेषपरिग्रहाः । सर्वज्ञपुत्रका नैते वदन्ति वितथं क्वचित् ॥१५॥ न गुरुस्त्वं त्वया यस्माद्विश्वमाजन्म वञ्चितम् । नितान्तं शिक्षणीयोऽसि प्रत्युताद्य दुराशयः ॥१६॥ यथावस्थितमाख्याहि तत्त्वमेवमपि स्थिते । न चेच्छेत्स्यामि ते मौलिमित्यसि कोशतोऽकृषत् ॥१७॥ उपाध्यायऽप्यदो दध्यौ मिमारयिषुरेष माम् । यथार्थतत्त्वकथने समयोऽयमुपस्थितः ॥१८॥ इदं च पठ्यते वेदेष्वाम्नायोऽप्येष नः सदा । कथ्यं यथास्थितं तत्त्वं शिरश्छेदे हि नान्यथा ॥१९॥ तस्मात् प्रकाशयाम्याशु तत्त्वमस्मै यथातथम् । यथा जीवामि 'जीवन् हि नरो भद्राणि पश्यति' ॥२०॥ इत्याचख्यावुपाध्यायो ध्यायन कुशलमात्मनः । अधस्तादस्य यूपस्य न्यस्तास्ति प्रतिमार्हतः ॥२१॥ पूज्यतेऽत्र स्थितैवैषा सिद्धपुत्रोऽन्यथाऽध्वरम् । हन्ति प्रौढतपा हन्त ! नारदः परमार्हतः ॥२२॥ इति यूपमुपाध्यायस्तमुत्पाठ्य यथास्थिताम् । तामर्हत्प्रतिमां पुण्यां दर्शययित्वैवमब्रवीत् ॥२३॥ इयं हि प्रतिमा यस्य देवस्य श्रीमदर्हतः । तत्त्वं तदुदितो धर्मोऽध्वरादि तु विडम्बनम् ॥२४॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy