SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ [२८८ [विवेकमञ्जरी अथ शय्यम्भवो यथा - $8 अस्ति श्रीमोचितस्वर्गस्पृहं राजगृहं पुरम् । तत्र शय्यम्भवो नाम याज्ञिकोऽभूद् द्विजोत्तमः ॥१॥ पुरोपान्तसर: पालौ विलसद्यज्ञमण्डपः । आहूतानेकवेदान्ती स यष्टमुपचक्रमे ॥२॥ इतश्च प्रभवस्वामी तदाऽऽगात्तत्र पत्तने । मत्वा श्रुतोपयोगेन तं योग्यं बोधसम्पदः ॥३॥ आदिशच्च द्वयोर्मुन्योर्यज्ञौकसि युवां जवात् । गत्वा भिक्षार्थिनौ ब्रूतं धर्मलाभाशिषं सुखम् ।।४।। अदातुमिच्छभिस्तत्र यज्ञवाटद्विजातिभिः । अपि प्रस्थाप्यमानाभ्यां युवाभ्यां वाच्यमीदृशम् ॥५॥ अहो ! कष्टमहो ! कष्टं तत्त्वं विज्ञायते न हि। . अहो ! कष्टमहो ! कष्टं तत्त्वं विज्ञायते न हि ॥६॥ अथ वन्दनमालाङ्कद्वारमुत्तम्भितध्वजम् । द्वार्मुक्ताचामनाहावं समिद्व्यापृतमाणवम् ॥७॥ स्तूपावबद्धछगलं वेदिमध्येद्धपावकम् । होमद्रव्यभूतानेकपात्रमृत्विग्भिरञ्चितम् ॥८॥ समिदाद्यर्पणव्यग्राध्वर्यमध्वरवाटकम् । तौ मुनी जग्मतुर्भिक्षासमये गुर्वनुज्ञया ॥९॥ विशेषकम् ।। भिक्षामदित्सुभिविप्रैर्विसृष्टावथ तौ मुनी । गुर्वादिष्टमहो ! कष्टमित्याधूचतुरुच्चकैः ॥१०॥ अध्वरे दीक्षितस्तस्मिन् सैष शय्यम्भवो द्विजः । यज्ञवाटान्तरद्वारस्थितोऽश्रौषीद् वचस्तयोः ॥११॥ दध्यौ चोपशमस्फातिप्रधानाः साधवो ह्यमी । न मृषावादिनस्तेन तत्त्वे सन्देग्धि मे मनः ॥१२॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy