Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 314
________________ गुणानुमोदनाद्वारे शय्यम्भवकथा ] मनागित्यभिधातव्ये सापि प्राकृतभाषया । ऊचे मणयमित्यल्पमात्रगर्भा ह्यभूत् तदा ||३७| तस्याश्च ववृधे गर्भः प्रत्याशेव शनैः शनैः । समयेऽपि सुतो जज्ञे तन्मनोऽम्भोधिचन्द्रमाः ||३८|| तदा मणयमित्यासीद् ब्राह्मण्या कृतमुत्तरम् । अतस्तस्यापि बालस्याभिधा मणक इत्यभूत् ॥३९॥ पाल्यमानोऽर्भकः सोऽष्टवर्षीभूतो जगाद ताम् । क्व नाम तातो मे मातर्वेषेणाविधवासि यत् ? ॥४०॥ सोचे यज्ञरतस्तातस्तव शय्यम्भोऽभवत् । प्रतार्य व्रतिभिर्धूर्तैर्नीतो गर्भगते त्वयि ॥४१॥ पितुः शय्यम्भवस्यर्षेर्मिलनायोत्सुकः स तु । निरियाय गृहाद्वालो वञ्चयित्वा मातरम् ॥४२॥ तदा शय्यम्भवाचार्यश्चम्पायां विहरन्नभूत् । ययौ बालोऽपि तत्रैव स्वर्णा पातालमध्विव ॥४३॥ कायचिन्तादिना सूरिः पुरिपरिसरे व्रजन् । बालमिन्दुमिवायान्तं दृष्ट्वाऽमोदत वार्धिवत् ॥४४॥ दृष्ट्वा बालोऽपि तं सूरिं सूरं कमलकोशवत् । विकसद्वदनो जज्ञे स्फुटरोमाञ्चकण्टकः ॥४५॥ अथापृच्छत् तमाचार्या बालमुत्फालहर्षभाक् । कस्त्वं कृतस्तथाऽयासीर्वत्स ! पुत्रोऽसि कस्य च ? ॥४६॥ सोऽर्भकोऽभिदधे राजगृहादत्राहमागमम् । सूनुः शय्यम्भवस्यास्मि वत्सगोत्रद्विजन्मनः ॥४७॥ मम गर्भगतस्यापि प्रवज्यामाददे पिता । पुरात् पुरं तमन्वेष्टुं सम्भ्रमीव भ्रमाम्यहम् ॥४८॥ २९१] 5 10 15 20

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362