Book Title: Vivek Manjari Part 01
Author(s): Chandranbalashreeji, Pandit Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 310
________________ गुणानुमोदनाद्वारे नागदत्तकथा ] २८७] नागदत्तापकार्येष इति घुष्टागसं भृशम् । पुर्यन्तं भ्रामयिा तं विदधे देशतो बहिः ॥१०९॥ युग्मम् ॥ इतश्च प्रियमित्रेण पुनरागत्य मन्दिरे । पुत्र्या नागवसोरर्थे धनदत्तोऽभ्यधीयत ॥११०॥ ततस्तातगिरा नागदत्तोऽपि तदमन्यत । मनसा प्रतिपन्नं हि नान्यथा जायते सताम् ॥१११॥ अथ नागवसु-र्नागदत्तेनात्मानुरागिणी । द्रव्यानुरूपसामग्रया तेन सा पर्यणीयत ॥११२॥ असंक्तो विषयानेष ततोऽभुङ्क्त तया सह । पयसीवाम्बुजं प्रेम्णि निमग्नोऽप्यलिप्तोऽमुना ॥११३॥ अथैकदा समं पत्या सूक्तिगोष्ठी वितन्वती । गवाक्षस्थाऽश्रृणोद् नागवसुराक्रन्दितं क्वचित् ॥११४॥ पप्रच्छ नागदत्तं सा किमिदं श्रूयते प्रिय ! । नागदत्तोऽब्रवीत् कान्ते ! भवनाटकमीदृशम् ॥११५॥ विद्वद्गोष्ठी क्वचित् क्वापि कलहः क्वापि गीतयः । क्वचिदाक्रन्दितं यत्र तत्र रज्येत कः सुधी: ? ॥११६॥ ततो नागवसुः प्राह धिग्भवं त्यज्यतामयम् । नागदत्तोऽभ्यधादीदृग् मनो मेऽपि त्वरस्व तत् ॥११७॥ परस्परमथापृच्छ्य पितरौ तौ व्रतार्थिनौ । सङ्घपूजार्थिसत्काराभयदानादि तेनतुः ॥११८॥ तौ सुस्थितौ सुस्थितसूरिपाशर्वे व्रतं गृहीत्वा महतोत्सवेन । तप्त्वा तपो दुस्तपमायुषोऽन्ते सौधर्मकल्पे त्रिदशानभूताम् ॥११९॥ ॥ इति श्रीनागदत्तकथा ॥ . . . 15

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362