Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 विशेषा० सर्वस्मिन्नपि लोके एकमेव द्रव्यमङ्गलम् । सर्वेषां द्रव्यमङ्गलत्वसामान्यादव्यतिरिक्तत्वात् , व्यतिरेके चाऽद्रव्यमङ्गलत्वमाप्तेः, सामान्यस्य च त्रिभुवनेऽप्येकत्वात् ।। इति गाथार्थः ॥ ३१ ॥ एतदेवाह ऐकं निच्चं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नस्थि विसेसो खपुप्फ व ॥ ३२ ॥ एकमद्वितीयत्वादेकसंख्योपेतं सामान्यम् । एकमपि क्षणिकं स्यात् , तत्राह-नित्यमनपोयि । नित्यमप्याकाशवत सावयवं स्यात् , तभिरवयवत्वे सवितुरुदयाऽस्तमनाऽयोगात् , इत्यत्राह-निरवयवमनंशं, पूर्वापरकोटिशून्यत्वादिति । निरवयवमपि परमाणुवत सक्रिय स्यात् , अत आह- अक्रिय क्रियारहितम् , परिस्पन्दविनिमुक्तत्वादिति । अक्रियमपि दिगादिवत् सर्वगतं न स्यात, अत्राहसर्वगं च सकललोकाऽवाप्तसत्ताकम् । इदमित्थंभूतं सामान्यमेवास्ति, न तु विशेषः कश्चनाऽपि विद्यते । कुत इत्याह-निःसामान्यत्वात सामान्यविरहितत्वात् , खपुष्पवत् , यच्चाऽस्ति तत् सामान्यविरहितं न भवति, यथा घटः । तस्मादेकस्माद् द्रव्यमालसामान्यादव्यतिरिक्तत्वाद तव्यतिरेके चाद्रव्यमङ्गलतामसङ्गात् सामान्यस्य च त्रिभुवनेऽप्येकत्वादेकमेव संग्रहनयमते द्रव्यमङ्गलम्, इति स्थितम् ॥ इति गाथार्थः ॥ ३२॥ अत्र विशेषवादिनयमतस्थितः कश्चिदाह- ननु कथमनेकानि द्रव्यमङ्गलानि न संभवन्ति ?, यथा हि वनस्पतिरित्युक्ते वृक्ष-गुल्म-लता-वीरुदादयो विशेषा एव प्रतीयन्ते न पुनस्तदतिरिक्तः कश्चिद् वनस्पतिः, एवमिहाऽपि द्रव्यमङ्गलमित्युक्तेऽनुपयुक्ततत्परूपकलक्षणा विशेषा एवाऽवगम्यन्ते न तु तदधिकं किश्चित् सामान्यम् , अतः किं शून्य इवाऽस्मिन् जगत्येवमभिधीयते- 'निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व' इति ?, इति विशेषवादिना प्रोक्ते सामान्यवादी संग्रहः प्राह-ननु यत एव वनस्पतिरित्युक्ते वृक्षादयः प्रतीयन्ते, अत एव ते तदनर्थान्तरभूताः, हस्तस्येवाङ्गुलयः, इह यस्मिन्नुच्यमाने यत् प्रतीयते, तत् ततो व्यतिरिक्तं न भवति, यथा हस्त इत्युक्तेऽङ्गुल्यादयः प्रतीयमाना हस्ताद् न व्यतिरिक्ताः, प्रतीयन्ते च वनस्पतिरित्युक्ते वृक्षादयः, इत्यमी न वनस्पतिव्यतिरिक्ताः, ततो न सामान्यादतिरिक्तः कोऽपि विशेषः समस्ति, इत्येकमेव सर्वत्र द्रव्यमङ्गलमिति । अथोपपत्त्यन्तरेणाऽपि सामान्यवाद्येव वृक्षादीनां सर्वेपामपि वनस्पतिसामान्यरूपतां समर्थयन्नाह १ एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम् । निःसामान्यत्वाद् नास्ति विशेषः खपुष्पमिव ॥ ३२ ॥ २ ख. 'पायम् ॥ चूओ वणस्सइच्चिय मूलाइगुणो त्ति तस्समूहो व्य । गुम्मादओ वि एवं सव्वे न वणस्सइविसिट्ठा॥३३॥ 'चूतः' आम्रो वनस्पतिरेव वनस्पतिसामान्य न व्यभिचरतीत्यर्थः, इति प्रतिज्ञा, मूल-कन्द-स्कन्ध-त्वक्-शाखा-प्रवाल-पत्र-पुष्पफल-बीजादिगुणत्वादिति हेतुः, चूतसमूहवदिति दृष्टान्तः इह यो यो मूलादिगुणः स स वनस्पतिसामान्यरूप एव, यथा चूतसमूहा, मूलादिगुणश्च चूतः, तस्माद् वनस्पतिसामान्यरूप एव, गुल्मादयोऽप्येवं वाच्याः, तथाहि-विशेषवादिना विशेषतयाऽभ्युपगम्यमानो गुल्मोऽपि वनस्पतिसामान्यरूप एव, मूलादिगुणत्वात , गुल्मसमूहवत , इति । एवमन्येषामपि लतादिविशेषाणां वनस्पतिसामान्यादव्यतिरिक्तत्वं साधनीयम् । तद्वयतिरेके सर्वत्र मृन्मयत्वादिमसको बाधकं प्रमाणम् । तस्मात् सामान्यमेवाऽस्ति, न विशेषाः ॥ इति गाथार्थः॥३३॥ किश्व सोमन्नाउ विसेसो अन्नोऽणन्नो व होज, जइ अण्णो।सो नत्थि खपुप्फ पिवऽणण्णो सामन्नमेव तयं ॥३॥ भो विशेषवादिन ! सामान्याद विशेषोऽन्यो वा स्यात अनन्यो वा १. इति विकल्पदयम । यद्यायो विकल्पः, तर्हि नास्त्येव विशषः, निःसामान्यत्वात् , खपुष्पवत्-इह यद् यत् सामान्यविनिमुक्तं तत तद् नास्ति, यथा गगनारविन्दम् , सामान्यविरहितश्च विशेषवादिना विशेषोऽभ्युपगम्यते, तस्माद् नास्त्येवाज्यामिति । अथाऽनन्य इति द्वितीयः पक्षः कक्षीक्रियते, हन्त ! तर्हि सामान्यमेवाऽसौ, तदनन्यत्वात् , सामान्यात्मवत्, यद् यस्मादनन्यत् तत् तदेव, यथा सामान्यस्यैवाऽऽत्मा, अनन्यश्च सामान्याद् विशेषः, इति सामान्यमेवाऽयमिति । यदि चाऽतिपक्षपातितयां सामान्येऽपि विशेषोपचारः क्रियते, तर्हि नकोंचित कचित क्षतिः न हयुपचारेणोच्यमानो भेदस्ताविकमेकत्वं बाधितुमलम् , तस्मात् सामान्यमेवाऽस्ति न विशेषः । इति संग्रहनयमतेन सर्वत्रैकमेव द्रव्यमङ्गलम् ॥ इति गाथार्थः॥३४॥ तदेवं संग्रहेण स्वाभिमते सामान्ये प्रतिष्ठिते विशेषवादिनौ नैगमव्यवहारावाहतु:ने विसेसत्यंतरभूअमत्थि सामण्णमाह ववहारो । उवलंभववहाराभावाओ खरविसाणं व ॥ ३५ ॥ १ चूतो वनस्पतिरेव मूलादिगुण इति तस्समूह इव । गुल्मादयोऽप्येवं सर्वे न वनस्पतिविशिष्टाः ॥ ३३ ॥ २ सामान्याद् विशेषोऽन्योऽनन्यो वा भवेत् , यगन्यः । स नास्ति खपुष्पमिव, अनन्यः सामान्यमेव तत् ॥ ३४॥ ३ क. 'द्वितीयपक्षः'।४ क. 'कदाचित् क्षतिः' । ख. ग. 'काचित् क्षतिः । ५ न विशेषार्थान्तरभूतमस्ति सामान्यमाह व्यवहारः । उपलम्भन्यवहाराभावात् खरविषाणमिव ॥१५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 339