Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 13 Acharya Shri Kailassagarsuri Gyanmandir विशेषा ० मुच्यत इति भावः । तथा द्रवति तांस्तान् पर्यायान् गच्छतीति दुः सत्ता तस्या एवावयवो विकारो वेति द्रव्यम्, अवान्तरसत्तारूपाणि हि द्रव्याणि महासत्ताया अवयवो विकारो वा भवन्त्येवेति भावः । तथा गुणा रूपरसादयस्तेषां संद्रवणं संद्रावः समुदायो घटादिरूपो द्रव्यम् । तथा 'भव्यं भावस्स त्ति' भविष्यतीति भावस्तस्य भावस्य भाविनः पर्यायस्य यद् भव्यं योग्यं तदपि द्रव्यम्, राज्य पर्यायाऽर्हकुमारवत् । तथा भूतभावं चेति- भूतः पश्चात्कृतो भावः पर्यायो यस्य तद् भूतभावं तदपि द्रव्यम्, अनुभूतघृताधारत्व पर्याय रिक्तघृतघटवत् । चशब्दाद् भूतभविष्यत्पर्यायं च द्रव्यमिति ज्ञातव्यम्, भूतभविष्यद्धृताधारत्व पर्याय रिक्तघृतघटवदिति । एतदपि भूतभावं तथा भूतभविष्यद्भावं च कथंभूतं सद् द्रव्यम् १, इत्याह- यद् योग्यम्, भूतस्य भावस्य भूतभविष्यतोश्च भावयोरिदानीमपि यद् योग्यमर्ह तदेव द्रव्यमुच्यते, नाऽन्यत्, अन्यथा सर्वेषामपि पर्यायानामनुभूतत्वादनुभविष्यमाणत्वाच्च सर्वस्यापि पुद्गलादेर्द्रव्यत्वप्रसङ्गात् ।। इति गाथार्थः ॥ २८ ॥ आह विनेयः - ननु सामान्येन द्रव्यलक्षणमत्रगतम्, परं द्रव्यमङ्गलं किमभिधीयते । इति प्रस्तुतं निवेद्यताम्, इत्याह ओगमओsaउत्तो मंगलसद्दाणुवासिओ वत्ता । तन्नाणलद्धिसहिओ वि नोवउत्तो त्ति तो दव्वं ॥ २९ ॥ इह द्रव्यमङ्गलं तावद् द्विधा भवति - आगमतः- आगममाश्रित्य नोआगमतश्च- नोआगममाश्रित्य तत्राऽगमो मङ्गलशब्दार्थज्ञानस्वरूपोऽत्राऽभिप्रेतः, तमाश्रित्य 'द्रव्यं' द्रव्यमङ्गलमिति पर्यन्ते संबन्धः । कोऽसौ ?, इत्याह- वक्ता मङ्गलशब्दार्थप्ररूपकः । किं सर्वोऽपि १, न, इत्याह- अनुपयुक्तः तदुपयोगशून्यः । किं विशिष्टः १, इत्याह- मङ्गलशब्दानुवासितः मङ्गलशब्दार्थज्ञानावरणक्षयोपशम संस्कारानुरञ्जितमनाः तज्ज्ञानलब्धिमानिति यावत् । ननु यदि तज्ज्ञानलब्धिमांस्तर्हि किमिति द्रव्यम् १, इत्याह- 'तनाणेत्यादि' तज्ज्ञानलब्धिसहितोऽपि मङ्गलशब्दार्थज्ञानावरणक्षयोपशमवानपि नोपयुक्तस्तत्र मङ्गलशब्दार्थे यस्मादसौ, 'तो त्ति' तस्माद् द्रव्यमङ्गलम् । इदमुक्तं भवति - ' अनुपयोगो द्रव्यम् ' इति वचनाद् मङ्गलशब्दार्थ जानन्नपि तत्रानुपयुक्तस्तं प्ररूपयंस्तज्ज्ञानलब्धिसहितोऽप्यागमतो द्रव्यमङ्गलमेव ।। इति गाथार्थः ॥ २९ ॥ अत्राह कश्चित् - ननु कोऽयमागमो यमाश्रित्य द्रव्यमङ्गलमिदमभिधीयते १ । अत्रोच्यते- मङ्गलशब्दार्थज्ञानमत्राऽऽगमः । तर्हि प्रेर्यते, किम् ?, इत्याह १ ग 'भवत्येव' । २ आगमतोऽनुपयुक्तो मङ्गलशब्दानुवासितो वक्ता । तज्ज्ञानलब्धिसहितोऽपि नोपयुक्त इति तस्माद् द्रव्यम् ॥ २९ ॥ ३ क. ख. ग. ' रूपो । ४ ख. 'मङ्गलशब्दार्थज्ञानवानपि । ts नाणमागमो तो कह दव्वं दव्वमागमो कह णु ? | आगमकारणमाया देहो सद्दो यतो दव्वं ॥३०॥ यदि मङ्गलशब्दार्थज्ञानमागमः तर्हि तद्वक्ताऽसौ कथं द्रव्यमङ्गलम् ?, आगमस्य भावमङ्गलत्वेन द्रव्यमङ्गलत्वानुपपत्तेः । अथ द्रव्यम् - द्रव्यमङ्गलमसौ तर्हि आगमः कथम् ? येनाऽऽगमत आगममाश्रित्येत्युच्यते; द्रव्ये आगमस्याऽभावात्, भावे वा भावमङ्गलत्वमसङ्गात् । तस्मादागमतो द्रव्यमङ्गलमिति दूरविरुद्धमिदम् । इति परेणोक्ते आचार्यः प्राह- आगमेत्यादि, इदमुक्तं भवति - आगमत इत्युतेनैतद् भवता बोद्धव्यं यदुत - न साक्षादेवाऽऽगमोऽत्रास्ति, किं तर्हि ?, आगमस्य मङ्गलशब्दार्थज्ञानलक्षणस्य यत् कारणं निमित्तं तदेवेह विद्यत इत्यवगन्तव्यम् । किं पुनस्तदागमस्य कारणमिहात्रसेयम् १, इत्याह- अनुपयुक्तस्य वक्तुः संवन्धी आत्मा जीवो देहः शब्दश्व, जीवशरीरे हि तावदागमस्य कारणम्, तदाधारविरहितस्याऽऽगमस्याऽसंभवात् । शब्दोऽपि प्रत्याय्य शिष्यगताऽऽगमस्य कारणमेव, तमन्तरेण तस्याऽभावात् । यच्च कारणं तद् द्रव्यं भवत्येव “ भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम् " इत्यादिवचनात्, इत्याह- 'तो त्ति' यत एवम् तस्माद् द्रव्यं द्रव्यमङ्गलमिदमित्यर्थः । यद्यागमकारणमेवेह विद्यते, तर्हि कथमिदमागमो येनाssगमतो द्रव्यमङ्गलं स्यात् ? इति चेत् । उच्यते- आगमस्य कारणभूता आत्मादयोऽपि कारणे कार्योपचारादागमत्वेनोच्यन्ते, भवति च कारणे कार्यव्यपदेशः, यथा - ' तन्दुलान् वर्षति पर्जन्यः ' । तस्मादागमतो द्रव्यमङ्गलं न विरुध्यते ।। इति गाथार्थः ॥ ३० ॥ 44 अथ “नैत्थि नयेहिं विह्नणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नये नयविसारओ बूया" ॥ १ ॥ इति वचनाज्जनमते सर्वेऽपि पदार्था नयैर्विचारणीयाः, इत्यतो द्रव्यमङ्गलमपि नयैर्विचारयन्नाह - गो मंगलमेगं गा गाई णेगमनयस्स । संगहनयस्स एकं सव्वं चिय मंगलं लोए ॥ ३१ ॥ वक्ष्यमाणशब्दार्थस्य नैगमनयस्य मतेनैकोऽनुपयुक्तो मङ्गलशब्दार्थमरूपक एक द्रव्यमङ्गलम् अनेके त्वनुपयुक्तास्तत्मरूपका अनेकानि द्रव्यमङ्गलानि । अयं हि नयः सामान्यं विशेषांश्चाऽभ्युपगच्छत्येव, तंत्र विशेषवादित्वपक्षे एकोऽनुपयुक्त एकं द्रव्यमङ्गलम् ; अनेके त्वनुपयुक्ता अनेकानि द्रव्यमङ्गलानीत्युपपद्यत एव विशेषाणां पृथग्भिन्नत्वादिति । संग्रहनयस्य तु वक्ष्यमाणस्वरूपस्य केवलसामान्यवादिनो मतेन १ यदि ज्ञानमागमस्तस्मात् कथं द्रव्यं, द्रव्यमागमः कथं नु ? । आगमकारणमात्मा देहः शब्दो यतो द्रव्यम् ॥ ३० ॥ भगलता । २ नास्ति नयैर्विहीनं सूत्रमर्थश्च जिनमते किञ्चित् । आसाद्य तु श्रोतारं नयेन च विशारदो ब्रूयात् ॥ १ ॥ ३एको मङ्गलमकमनेऽनेकानि नैगमनयस्य । संग्रहनयस्यैकं सर्वसेव मङ्गलं लोके ॥ ३१ ॥ ४ ख. ' त्युच्यते ' । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 339