Book Title: Vir Nirvan Samvat aur Jain Kal Ganana
Author(s): Kalyanvijay Gani
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text
________________
८६
वीर निर्वाण संवत् और जैन काल-गणना
तो जैन लेखक उसे पाटलिपुत्र का राजा न लिखकर उज्जयिनी का राजा अथवा युवराज नहीं लिखते । इससे हम इस नतीजे पर पहुँचते हैं कि जिस समय संप्रति को आर्य सुहस्ती ने जैन बनाया उस समय वह युवराज पद पर स्थित होकर अवंति का शासक था, इसलिये सुहस्ती और संप्रति की समकालीनता में कोई असंगति नहीं है ।
राधगुप्तमुवाच-कथय राधगुप्त ! कः साम्प्रतं पृथिव्यामीश्वरः । अथ राधगुप्तोऽशोकस्य पादयोर्निपत्य कृताञ्जलिरुवाच- देवः पृथिव्यामीश्वरः । अथ राजाऽशोकः कथञ्चिदुत्थाय चतुर्दिशमवलोक्य संघायाञ्जलिं कृत्वा 'एष इदानीं महत्कोशं स्थापयित्वा इमां समुद्रपर्यंतां महापृथिवीं भगवच्छ्रावकसंघे निर्यातयामि ।'
यावत्पत्राभिलिखितं कृत्वा दत्तं (दन्त) मुद्रया मुद्रितम् । ततो राजा महापृथिवीं संघे दत्वा कालगतः । यावदमात्यैर्नीलपीताभिः शिविकाभिर्निर्हरित्वा शरीरपूजां कृत्वा राजानं प्रतिष्ठापयिष्याम इति यावद् राधगुप्तेनाभिहितं राज्ञाऽशोकेन महापृथिवी संघे निर्यातिता इति । ततोऽमात्यैरभिहितं किमर्थमिति, राधगुप्त उवाच - एष राज्ञोऽशोकस्य मनोरथो बभूव कोटिशतं भगवच्छासने दानं दास्यामीति तेन षण्णवतिकोट्यो दत्ता यावद् राज्ञा प्रतिषिद्धाः तदभिप्रायेण राज्ञापृथिवी संघे दत्ता यावदमात्यैश्चतस्रः कोट्यो भगवच्छासने दत्त्वा पृथिवीं निष्क्रीय संपदी राज्ये प्रतिष्ठापितः ।"
- दिव्यावदान २९ ।
अवदानकल्पलता के ७४ वें पल्लव में क्षेमेन्द्र ने भी संपदी को अशोक का पौत्र और उत्तराधिकारी लिखा है । देखो नीचे का उल्लेख
"तत्पौत्रः संपदी नाम, लोभान्धस्तस्य शासनम् । दानपुण्यप्रवृत्तस्य, कोशाध्यक्षैरवारयत् ॥८॥
दाने निषिद्धे पौत्रेण, संघाय पृथिवीपतिः । भैषज्यामलकस्यार्धं ददौ सर्वस्वतां गतम् ॥९॥
धीमतः सम्मतेनाऽथ, राधगुप्तस्य मन्त्रिणः । ददौ संघाय निखिलां पृथिवीं पृथिवीपतिः ॥ १०॥
गङ्गाम्बुभाररुचिरं चतुरम्बुराशिवेलाविलासवसनां मलयावतंसाम् । दत्वाऽखिलां वसुमतीं स समाससाद, पुण्यं प्रमाणकलनारहितं हिताय ॥ ११ ॥
प्रख्यातषण्णवतिकोटिसुवर्णदाने याते दिवं नरपतावथ तस्य पौत्रः ।
शेषेण मन्त्रिवचसा क्षितिमाजहार, स्पष्टं क्रयी कनककोटिचतुष्टयेन ॥१२॥' - बोधिसत्त्वावदानकल्पलता प ७४ पृ० ५९७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org