________________
उत्तराध्य.
चतुरङ्गीया
ध्ययनम्
बृहद्वृत्तिः
॥१७५॥
तत्किं यत्रैव स्थितं तत्रैव वेदनानिबन्धनमुतान्यत्रापि, यदि तत्रैव तर्हि त्वन्मतेन बहिरेवैतदवस्थितमित्यन्तःसातादिवेदनोच्छेदप्रसङ्गः, अथान्यत्रापि तद्वेदनानिवन्धनं तर्हि किं नैकात्मस्थितं सर्वात्मखपि?, उक्तं च-"जइ वावि भिन्नदेसंपि वेयणं कुणइ कम्ममेवं ते । कह अन्नसरीरगयं ण वेयणं कुणति अन्नस्स ? ॥१॥" तथा च कृतनाशाकताभ्यागमप्रसङ्गः, अथ येनैव कृतं तस्यैव तन्निवन्धनं, तथापि पादवेदनायां शिरोवेदनाऽऽपत्तिः, अथ सञ्चारित्वात्तस्यान्तरप्यवस्थानमिति नान्तः सातादिवेदनोच्छेदप्रसङ्गः, एवं तर्हि न कञ्चकतुल्यता, तस्य बहिरेव नियतत्वात् , युगपदुभयत्र वेदनाऽभावप्रसङ्गश्च, यथा च बहिःस्थमन्तःसञ्चारितया वेदनाहेतुरेवमन्तःस्थितं बहिःसञ्चारितया तद्धेतुरिति विपर्ययकल्पनापि किं न ?, नियामकाभावात् , सञ्चारित्वे च कर्मणो वायोरिव न भवान्तरानुवृत्तिः, तदुक्तम्-“भवंतरमण्णेई सरीरसंचारतो तदणिलो च"त्ति, किञ्च-काञ्चनोपलयोरपि पृथग्भावोऽस्ति | वा न वा ?, न तावन्नास्ति प्रत्यक्षतस्तद्दर्शनात् , अस्तित्वे च यथा भविष्यत्पृथग्भावित्वेऽपि तयोरविभागावस्थानेन स्पृष्टमात्रता तथा जीवकर्मणोरपि स्यात् , न च काञ्चनसत्वैव तत्र पूर्व नास्ति, चाकचिक्यदर्शनात्प्रत्यक्षतः, तथा यत्र यन्नास्ति न तस्य तत उत्पादः, सिकताभ्य इव तैलस्येत्यनुमानतश्च तत्सिद्धेः, ततश्च–'यत्र यद्वेदनाहेतुः, कम्म
१ यदि वाऽपि भिन्नदेशमपि वेदनां करोति कर्म एवं ते । कथमन्यशरीरगतं न वेदनां करोत्यन्यस्य ? ॥१॥२ न भवान्तरमन्वेति त शरीरसञ्चारतस्तदनिल इव ।
॥१७५॥
For Personal & Private Use Only
dan Education International
www.jainelibrary.org